Book Title: Jain Kumar Sambhava Mahakavyam
Author(s): Dharmshekharsuri, Jayshekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
२१४:
जैनकुमारसंभवं
[ षष्ठः
श्रोतांसि पश्चापि न पुष्पचाप
चापल्यमातन्वत तस्य नेतुः । खदेहगेहांशनिवासिनां यो,
न शासकः सोऽस्तु कथं त्रिलोक्याः॥२८॥ श्रोतां० तस्य नेतुः खामिनः पञ्चापि श्रोतांसि इन्द्रियाणि ६ पुष्पचापचापल्यं कन्दर्पसत्कचपलत्वं न अतन्वन् नाकुर्वन् ।
यः खदेहगेहांशनिवासिनां खीयदेहरूपगृहकोणवासिनां न शासको न शिक्षकः, स त्रिलोक्याः शासकः कथमस्तु ॥२८॥
या योषिदेनं प्रति दृष्टिभल्ली
चिक्षेप बाधाकरकामबुद्ध्या ।
तामप्यवैक्षिष्ट दृशा स साम्य१२ स्पृशैव शक्तौ सहना हि सन्तः ॥ २९ ॥
या० या योषित् स्त्री एनं भगवन्तं प्रति बाधाकरकामबुद्ध्या दृष्टिभल्लीश्चिक्षेप । बाधाकरकामबुद्धयेति, कामस्तस्या ५५ बाधाकरोऽस्ति, भगवन्तं दृष्ट्वा तया चिंतितं, एष एव कामस्त
तोऽहमपि एनं हन्मीति बुद्ध्या दृष्टिभिल्लीश्चिक्षेप इति भावः ।
स भगवान् तामपि स्त्रियं साम्यस्पृशैव दृशा रागरहितदृशा १८ अवैशिष्ट व्यलोकयत् । हि निश्चितं सन्तो विद्वांसः शक्तौ सत्यां
सहना वर्तन्ते, 'ज्ञाने मौनं क्षमा शक्ती त्यागे श्लाघाविपर्यय' इति न्यायात् ॥ २९ ॥
नासौ विलासोर्मिभिरप्सरोभिरक्षोभि नाव्यावसरागताभिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org