Book Title: Jain Kumar Sambhava Mahakavyam
Author(s): Dharmshekharsuri, Jayshekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
सर्गः]
जैनकुमारसंभवं
३९५
COM
तद्व० सख्यः खानपीठन्यस्ता उपविष्टां तां सुमङ्गलां अंभः संभारभाजिभिः जलसमूहेन शोभमानैः भृतैः हैमैः सुवर्णसत्कैः कुंभैर्घटैराशु शीघ्रं मजयामासुः स्नानं कारयामासुः, किं३ कुर्वद्भिः कुंभैः ? उत्प्रेक्ष्यते-तद्वक्षोजश्रीप्रौढिं आलोक्य तस्याः सुमङ्गलायाः स्तनलक्ष्मीसत्काः प्रौढिं दृष्ट्वा मन्दाक्षेणेव लज्जयेव नीचीभवद्भिः ॥ ६९ ॥ जगद्भर्तुर्वाचा प्रथममथ जंभारिवचसा,
रसाधिक्यात्तृप्तिं समधिगमितामप्यनुपमाम् । खरायातैर्भक्ष्यैः शुचिभुवि निवेश्यासनवरे,
बलादालीपाली चटुघटनयाऽभोजयदिमाम् ॥७० जग० आलीपाली सखीश्रेणिः शुचिभुवि पवित्रभूमौ आसनवरे इमां सुमंगला बलान्निवेश्य खरायातैः खर्गात् । आगतैर्भक्ष्यैः चटुघटनया चाटुवचनया अभोजयत्, किंलक्षणां सुमंगलां ? प्रथमं जगद्भर्तुर्वाचा श्रीऋषभदेवस्य वचनेन अथ जंभारिवचसा इन्द्रस्य वाण्या रसाधिक्यात् अनुपमां तृप्तिं ५ समधिगमितामपि प्रापितामपि ॥ ७० ॥ मूरिः श्रीजयशेखरः कविघटाकोटीरहीरच्छवि
धेम्मिल्लादिमहाकवित्वकलना कल्लोलिनीनीरधिः। १५ वाणीदत्तवरश्चिरं विजयते तेन स्वयं निर्मिते,
सों जैनकुमारसम्भवमहाकाव्येऽयमेकादशः॥७१॥ इति श्रीअञ्चलगच्छकविचक्रवर्तिश्रीजयशेखरसूरिविरचितायां श्रीजैन- १ कुमारसंभवस्य तच्छिष्यश्रीधर्मशेखरसूरिविरचितायां टीकायां
श्रीमाणिक्यसुन्दरसूरिशोधितायां एकादश
सर्गव्याख्या समाप्ता ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 412 413 414 415 416 417 418