Book Title: Jain Kumar Sambhava Mahakavyam
Author(s): Dharmshekharsuri, Jayshekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 413
________________ ३९४ टीकया सहितम् [एकादशः मील्यमानलोचनाः विमुक्तबाह्यभ्रमाः मौनजुषः एवंविधाः शकुन्ताः पक्षिणः सांद्रुमपर्णशालाः निबिडवृक्षपत्रशालाः ३ अयन्ति, उत्प्रेक्ष्यते--अभ्यस्तयोगा इव ।। ६६ ॥ उदीयमानोऽकृत लोककर्म साक्षीत्यभिख्यामयमाहितार्थाम् । ६ भाखानिदानीं तु कृतान्ततात, इति त्विषा त्रासितसर्वसत्त्वः ॥ ६७॥ उदी० अयं भावान् सूर्यः उदीयमानः सन् लोककर्म९साक्षी इति अभिख्यां नाम आहितार्थो सत्यार्थी अकृत कृतवान् , तु पुनरिदानी अधुना कृतांततात इति अभिख्यां आहितार्थी अकृत, किंवि० सूर्यः ? विषा कान्त्या त्रासितसर्वसत्त्वः॥६७॥ इतीरयित्वा विरतासु तासु, तारुण्यमारूढमहनिरीक्ष्य । सुमङ्गलाय स्वयशोनियुक्त१५ धीमज्जना मजनसम भेजे ॥ ६८॥ इती० अथानन्तरं सुमङ्गला मजनसद्म मज्जनगृहं भेजे, किं कृत्वा ? अहर्दिन तारुण्यं यौवनं आरूढं निरीक्ष्य, कासु १८सतीषु तासु सखीषु इति ईरयित्वा कथयित्वा विरतासु सतीषु, किंलक्षणा सुमंगला ? खयशोनियुक्तधीमज्जना, आत्मीययशसा नियुक्ता व्यापारिता, विद्वजना यया सा खयशोनि०॥६८॥ तद्वक्षोजश्रीप्रौढिमालोक्य हैमः, कुम्भैर्मन्दाक्षेणेव नीचीभवद्भिः। अम्भःसंभारभ्राजिमिः स्नानपीठन्यस्ता सख्यस्तां मजयामासुराशु ॥ ६९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418