Book Title: Jain Kumar Sambhava Mahakavyam
Author(s): Dharmshekharsuri, Jayshekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
३८९
सर्गः] जैनकुमारसंभवं ३८९
अवोचदालीरुपजानुपाली
भूय स्थिता गद्गदया गिरा सा । अतृप्त एवात्र जने रसस्य,
हला बलारियरमत्किमुक्तेः॥ ५३॥ अवो० सा सुमंगला गद्दया गिरा स्खलिताक्षरया वाण्या उपजानु समीपे पालीभूय श्रेणीभूय स्थिता, एवंविधा आलीः ६ सखीरवोचत् , हे हलाः सख्यः ! बलारिः इन्द्रः अत्र मल्लक्षणे जने रसस्य अतृप्त एव उक्तः किं व्यरमत् व्यरराम ॥ ५३ ॥
दौःस्थ्यं किमस्यापि कथाप्रथासु,
न्यासोचिता वा किमु नासि तासाम् । वाणीरसे मामसमाप्तकामां,
विहाय यत्सैष ययौ विहायः ॥ ५४॥ १२ दौ० अस्यापि इन्द्रस्य कथाप्रथासु किं दौःस्थ्यं दारिद्र्यं वर्तते, वा अथवा तासां कथाप्रथानां किमु अहं न्यासोचिता संवासयोग्या नास्मि, यत् यस्मात् कारणात् स एष १५ इन्द्रः वाणीरसे असमाप्तकामां असंपूर्णाभिलाषां माम् विहाय मुक्त्वा विहायः आकाशं ययौ ॥ ५४ ।।
यस्यामृतेनाशनकर्म तस्य,
वचः सुधासारति युक्तमेतत् । पातुः पुनस्तत्र निपीयमाने,
चित्रं पिपासा महिमानमेति ॥ ५५॥ २१ यस्या० यस्य इन्द्रस्य अमृतेन अशनकर्म आहारो वर्तते, तस्य इन्द्रस्य वचःसुधासारति अमृतस्य आसार इवाचरति, २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418