SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ३८९ सर्गः] जैनकुमारसंभवं ३८९ अवोचदालीरुपजानुपाली भूय स्थिता गद्गदया गिरा सा । अतृप्त एवात्र जने रसस्य, हला बलारियरमत्किमुक्तेः॥ ५३॥ अवो० सा सुमंगला गद्दया गिरा स्खलिताक्षरया वाण्या उपजानु समीपे पालीभूय श्रेणीभूय स्थिता, एवंविधा आलीः ६ सखीरवोचत् , हे हलाः सख्यः ! बलारिः इन्द्रः अत्र मल्लक्षणे जने रसस्य अतृप्त एव उक्तः किं व्यरमत् व्यरराम ॥ ५३ ॥ दौःस्थ्यं किमस्यापि कथाप्रथासु, न्यासोचिता वा किमु नासि तासाम् । वाणीरसे मामसमाप्तकामां, विहाय यत्सैष ययौ विहायः ॥ ५४॥ १२ दौ० अस्यापि इन्द्रस्य कथाप्रथासु किं दौःस्थ्यं दारिद्र्यं वर्तते, वा अथवा तासां कथाप्रथानां किमु अहं न्यासोचिता संवासयोग्या नास्मि, यत् यस्मात् कारणात् स एष १५ इन्द्रः वाणीरसे असमाप्तकामां असंपूर्णाभिलाषां माम् विहाय मुक्त्वा विहायः आकाशं ययौ ॥ ५४ ।। यस्यामृतेनाशनकर्म तस्य, वचः सुधासारति युक्तमेतत् । पातुः पुनस्तत्र निपीयमाने, चित्रं पिपासा महिमानमेति ॥ ५५॥ २१ यस्या० यस्य इन्द्रस्य अमृतेन अशनकर्म आहारो वर्तते, तस्य इन्द्रस्य वचःसुधासारति अमृतस्य आसार इवाचरति, २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy