Book Title: Jain Kumar Sambhava Mahakavyam
Author(s): Dharmshekharsuri, Jayshekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 407
________________ ३८८ टीकया सहितम् [एकादशः ष्यति, वयस्थ एव यौवनं प्राप्त एव सुते मम आत्मा सहग्वयस्यः संपर्कसौख्यानि सदृक्षमित्रसंगमसुखानि गमिष्यति ॥ ५० ॥ ३ इत्युक्तिभिवृष्टिसिताम्बुमेघ ___ श्लाघाममोघां मघवा विधाय । तिरोदधे व्योमनि विद्युदर्चिः स्तोमं स्वभासा परितो वितत्य ॥५१॥ इत्यु० मघवा इन्द्र इत्युक्तिभिः पूर्वोक्तवचनैर्वृष्टिसिताम्बुमेघश्लाघां शर्करोदकमेघप्रशंसां अमोघां सफलां विधाय कृत्वा ९तिरोदधे अदृश्यो बभूव, किं कृत्वा ? व्योमनि आकाशे खभासा आत्मीयकान्त्या परितः समंततो विद्युदर्चिःस्तोमं विद्युत्तेजःसमूहं वितत्य विस्तार्य ॥ ५१ ॥ १२ तस्मिन्नथालोकपथाद्विभिन्ने, हृनेत्रराजीवविकासहेतौ । सा पद्मिनीवानघचक्रबन्धौ, १५ क्षणात्तमःश्याममुखी बभूव ॥ ५२ ॥ तमि० अथानन्तरं तस्मिन् इन्द्रे आलोकपथाद्विभिन्ने दर्शनमार्गाद्विभिन्ने पृथग्भूते सति सा पमिनीव क्षणात्तमः१८ श्याममुखी बभूव, तमसा विषादेन श्यामवदना जाता, किं विशिष्टे इन्द्रे ? हृनेत्रराजीवविकासहेतौ हृदयकमलनयन कमलयोर्विकाशकारणे, पुनः किंवि० इन्द्रे ? अनघचक्रबन्धौ २१ अनघानां निष्पापानां चक्रे समूहे बन्धुसदृशे पक्षे अनघे निर्दूषणे चक्रबन्धी सूर्ये आलोकपथाद्विभिन्ने सति कमलिनी २३ तमःश्याममुखी स्यात् तथा सा जाता ॥ ५२ ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418