SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २१४: जैनकुमारसंभवं [ षष्ठः श्रोतांसि पश्चापि न पुष्पचाप चापल्यमातन्वत तस्य नेतुः । खदेहगेहांशनिवासिनां यो, न शासकः सोऽस्तु कथं त्रिलोक्याः॥२८॥ श्रोतां० तस्य नेतुः खामिनः पञ्चापि श्रोतांसि इन्द्रियाणि ६ पुष्पचापचापल्यं कन्दर्पसत्कचपलत्वं न अतन्वन् नाकुर्वन् । यः खदेहगेहांशनिवासिनां खीयदेहरूपगृहकोणवासिनां न शासको न शिक्षकः, स त्रिलोक्याः शासकः कथमस्तु ॥२८॥ या योषिदेनं प्रति दृष्टिभल्ली चिक्षेप बाधाकरकामबुद्ध्या । तामप्यवैक्षिष्ट दृशा स साम्य१२ स्पृशैव शक्तौ सहना हि सन्तः ॥ २९ ॥ या० या योषित् स्त्री एनं भगवन्तं प्रति बाधाकरकामबुद्ध्या दृष्टिभल्लीश्चिक्षेप । बाधाकरकामबुद्धयेति, कामस्तस्या ५५ बाधाकरोऽस्ति, भगवन्तं दृष्ट्वा तया चिंतितं, एष एव कामस्त तोऽहमपि एनं हन्मीति बुद्ध्या दृष्टिभिल्लीश्चिक्षेप इति भावः । स भगवान् तामपि स्त्रियं साम्यस्पृशैव दृशा रागरहितदृशा १८ अवैशिष्ट व्यलोकयत् । हि निश्चितं सन्तो विद्वांसः शक्तौ सत्यां सहना वर्तन्ते, 'ज्ञाने मौनं क्षमा शक्ती त्यागे श्लाघाविपर्यय' इति न्यायात् ॥ २९ ॥ नासौ विलासोर्मिभिरप्सरोभिरक्षोभि नाव्यावसरागताभिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy