SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् २१३ अतीत्य ततस्ततो अनंतरं तृतीयेऽपि पुमर्थसारे पुरुषार्थरहस्ये कामाख्ये प्रावर्तत, किंलक्षणो भगवान् ? अनिरुद्धपित्रा कामेन अनुपरुद्धं अनासक्तं चित्तं यस्य स अनि० । पुनः किंविशिष्टो३ भगवान् ? अवक्रमतिरकुटिलबुद्धिः । पुनः किंवि० भ० ? क्रमशः धर्मार्थकामादीनां क्रमं जानातीति क्रमज्ञः ॥ २५ ॥ भोगाईकर्म ध्रुववेद्यमन्य जन्मार्जितं खं स विभुर्विबुध्य । मुक्त्येककामोऽप्युचितोपचारै रभुंक्त ताभ्यां विषयानसक्तः ॥ २६॥ ९ भोगा० स विभुः अन्यजन्मार्जितं प्राग्जन्मन्युपार्जितं खं भोगार्ह कर्म आत्मीयभोगफलकर्म ध्रुववेद्यं अवश्यभोक्तव्यं विबुध्य ज्ञात्वा, मुक्त्येककामोऽपि मुक्तौ एकाभिलाषोऽपि सन् , १२ उचितोपचारैः शीतग्रीष्मवर्षर्तुयोग्योपहारैरसक्तो नासक्तः सन् ताभ्यां सुमंगलासुनन्दाभ्यां समं विषयानमुंक्त ॥ २६॥ न तस्य दासीकृतवासवोऽपि, ___ मनो मनोयोनिरियेष जेतुम् । विगृह्णते स्वस्य परस्य मत्वा, ये स्थाम तानाश्रयते जयश्रीः ॥ २७॥ १८ न० मनोयोनिः कन्दर्पः, दासीकृतवासवोऽपि सन् दासीकृताः वासवा इन्द्रा येन स दासीकृतवासवोऽपि, तस्य भगवतः मनो जेतुं न इयेष न वांछितवान् । ये पुरुषाः खस्य आत्मीयस्य २१ परस्य अन्यस्य स्थाम बलं मत्वा ज्ञात्वा विगृह्यते विग्रहं कुर्वति, जयश्रीजैत्रलक्ष्मीस्तानाश्रयते ॥ २७ ॥ २३ १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy