SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २१२ जैनकुमारसंभवं [ षष्ठः उद्गन्धितं परिमलबहुलम् । क इव ? तत्त्वकाम इव । यथा तत्त्वकामस्तत्त्वमिच्छुर्मतिस्मृतिभ्यां सह शास्त्रं प्रविशति, ३ किंलक्षणं शास्त्रम् ? प्रधानवर्णं प्रशस्याक्षरं गुरुगन्धि गुरुणा उद्बन्धि उत्पाबल्येन गन्धि गन्धेन परिमलेन युक्तम् । गुरुं विना शास्त्रस्य परिमलो न स्यात् ॥ २३ ॥ विवाहदीक्षाविधिविद्वधूभ्यां, कृत्वा सखीभ्यामिव नर्मकेलीः | निद्रां प्रियीकृत्य स तत्र तल्पे, शिश्ये सुखं शेष इवासुरारिः ॥ २४ ॥ विवा० स भगवान् तत्र तस्मिन् मणिहम्यें मणिमयावासे तल्पे पल्यंके निद्रां प्रियीकृत्य निद्रामेव प्रियां अभीष्टां १२ कलत्रं वा कृत्वा सुखं शिश्ये सुप्तः । क इव ? असुरारिरिव यथा असुरारिः श्रीनारायणः शेषे सुखं खपिति । किंविशिष्टो भगवान् ? विवाहदीक्षा विधिवित् विवाहसत्कदीक्षाया आचारं १५ वेतीति विवाहदीक्षाविधिवत् । किं कृत्वा शिश्ये : सखीभ्यामिव वधूभ्यां सुमंगलासुनंदाभ्यां नर्मकेलीः, क्रीडाकौतुकानि कृत्वा ॥ २४ ॥ त्रिरात्रमेवं भगवानतीत्यानिरुद्धपित्रानुपरुद्धचित्तः । ततस्तृतीयेऽपि पुमर्थसारे, ६ 14 २२ प्रावर्ततावक्रमतिः क्रमज्ञः ॥ २५ ॥ त्रिरा० स भगवान् एवं अमुना प्रकारेण त्रिरात्रं रात्रित्रयं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy