SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ सर्गः ] टीकया सहितम् २११ विधो० त्रियामा रात्रिरुदीतस्योदितस्य विधोश्चन्द्रस्य करैः किरणैः प्रसृतैः सद्भिर्दिनाथितं दिवसवदाचरितं अनायि अप्रापि । तत् युवाक्षिभृङ्गैः यूनां तरुणानां अक्षिभृङ्गैर्लोचनरूप - ३ भ्रमरैः रामातरंगिणी स्मेरमुखाम्बुजेषु स्त्रीरूपनदी सत्कविकस्वरमुखकमलेषु अरामि रम्यते स्म ॥ २१ ॥ लोके सितांशोर्गमिते मयूखैदुग्धाब्धि केली कुतुकानि देवः । इयेष स वापसुखं सरोज साम्यं सिसत्यापयिषुः किमक्ष्णोः ।। २२ ।। ९ लोके० स देवः श्रीयुगादीशः स्वापसुखं निन्द्रा सौख्यं इयेष इच्छति स्म । किंलक्षणो भगवान् ? अक्ष्णोर्लोचनयोः सरोजसाम्यं कमलसा दृश्यम् । किं किमु सिसत्यापयिषुः सत्या- १२ पयितुमिच्छुः । क्व सति ? लोके सितांशोश्चन्द्रस्य मयूखैः किरणैर्दुग्धाब्धि केली कुतुकानि क्षीरसमुद्रसत्कक्रीडाकौतुकानि गमिते प्रापिते सति । यथा देवो नारायणः क्षीरसमुद्रे १५ शेते ॥ २२ ॥ तदैव देवैः कृतमग्र्यवर्ण, समं वधूभ्यां मणिहर्म्यमीशः । ततोऽगुरुगन्धि विवेश शास्त्रं, मतिस्मृतिभ्यामिव तत्त्वकामः ॥ २३ ॥ तदै ० ततस्ततोऽनन्तरं ईशः श्रीऋषभो वधूभ्यां सुमंगला - २१ सुनन्दाभ्यां समं मणिहर्म्यं मणिसत्कावासं विवेश प्रविष्टः । किंलक्षणं मणिहर्म्यम् ? तदैव देवैः कृतम् ? पुनः किंलक्षणं हर्म्यम् ? अग्र्यवर्ण प्रधानवर्णम् । पुनः किंलक्षणम् ? अगुरूगंधि अगरुणा २४ Jain Education International For Private & Personal Use Only १८ www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy