SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २१० जैनकुमारसंभवं [षष्ठः वर्ते, उत्तमपुरुषाणां तीर्थकृच्चक्रवर्तिबलदेववासुदेवाधुत्तमपुरुषाणां जन्म मय्येव मयि सत्यामेव वर्तते, योगिभोगिषु का ३ अपरा अन्या मदिष्टा मत्सकाशात् इष्टा अभीष्टा : कोऽर्थः ? योगिनो हि रात्रावेव प्रायो ध्यानस्तिमितलोचना योगनिद्रामापन्नाः स्युः । भोगिनोऽपि शब्दरूपरसगन्धस्पर्श एतत् ६ पञ्चप्रकारविषयसुखमनुभवन्ति. रात्राविति भावः, तत् तस्मात् कारणात् कापि स्त्री मया समाना न वर्तते, या स्त्री मानास्पदं अहंकारस्थानं अस्ति, सा बत इति वितर्के पुरोऽस्तु अग्रे ९ भवतु ॥ १८-१९ ॥ युग्मम् ॥ अदान्मदान्ध्यं तमसामसाध्यं, क्षिपाक्षिपादं प्रतिवैरिणां या। १२ तां विंदुरिन्दुर्दयितां चकार, सारं कलत्रं क कलंकिनो वा ॥ २० ॥ अदा० या क्षिपा रात्रिः तमसां अन्धकाराणां असाध्यं १५ मदान्ध्यं अदात् ददौ । किंविशिष्टानां तमसाम् ? क्षिपा रात्रिर्द कलत्रं यस्य तं क्षिपादं प्रति चन्द्रं प्रति; पक्षे अक्षिणी लोचने पादौ च द्वन्द्वे अक्षिपादं, तत्प्रति वैरिणाम् । इन्दुश्चन्द्रो विंदुर्वि१०द्वानपि तां दयितां पत्नी चकार । वा अथवा कलंकिनः सारं कलत्रं क वर्तते ॥ २० ॥ विधोरुद्दीतस्य करैरनायि, दिनायितं यत्प्रसृतैस्त्रियामा। युवाक्षिभृङ्गैस्तदरामि रामा तरंगिणीसेरमुखाम्बुजेषु ॥ २१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy