________________
सर्गः] टीकया सहितम्
२०९ नोत्पन्नः । हेतुमाह । यत् यस्मात् कारणात् एष विधुश्चन्द्रो जात. मात्रः सन् श्रीलवलाभलोभात् श्रीलक्ष्मीः शोभा वा तस्या लवो लेशस्तल्लाभलोभात् प्रतिधिष्ण्यं प्रतिनक्षत्रं प्रतिगृहं वा करं हस्तं ३ अक्षिपत् । चन्द्रोदये नक्षत्राणि निस्तेजांसि जातानीति भावः । ब्राह्मणा अपि प्रतिगृहं याच्यां कुर्वन्ति, तेन कारणेन भिक्षाचरकुलोत्पन्नश्चन्द्र इति ज्ञायते ॥ १७ ॥
अलोपि सूरोऽपि मयाऽऽपतन्त्या
प्यहं महोऽवग्रहभिद्रहाणाम् । मय्येव जन्मोत्तमपूरुषाणां,
का योगिभोगिष्वपरा मदिष्टा ॥ १८॥ न स्त्री ततः कापि मया समाना, __मानास्पदं या बत सा पुरोऽस्तु । इतीव सल्लक्ष्मलिपींदुपत्र
मुच्चैः समुत्तंभयति स रात्रिः ॥ १९ ॥ अलो० रात्रिः सल्लक्ष्मलिपि सत् विद्यमानं लक्ष्म लांछन- १५ मेव लिपिर्यत्र तत् सलक्ष्मलिपि, इन्दुपत्रं इन्दुश्चन्द्रस्तमेव पत्रं उच्चैरुच्चैस्तरं समुत्तभयति स्म, वादिनो हि उच्चैः पत्रावलम्ब उत्तभयन्ति, उक्तं च "उद्धृत्य बाहू परिरारटीमि यस्यास्ति शक्तिः१० स च वावदीतु ॥ मयि स्थिते वादिनि वादिसिंहे नैवाक्षरं वेत्ति महेश्वरोऽपि" इति पत्रावलम्बो वादिनां ज्ञेयः, उत्प्रेक्ष्यते-- इतीव, इतीति किं मया आपतन्या आगच्छंत्या सूरोऽपि २१ सूर्यः सुभटो वा अलोपि लुप्तः, अहं ग्रहाणां महोऽवग्रहभिद्, महस्तेजस्तस्यावग्रहो विघ्नं तद्भिनद्मीति महोऽवग्रहभित् २२
जै० कु. १४
२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org