SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २०८ टीकया सहितम् [षष्ठः पीयूषपानं अमृतपानं येषाम् । राजकरोपनीतपीयूष गानेः । किलक्षणाः कोकाः ? भावद्विरोकापगमाप्तशोकाः भास्वतः सूर्यस्य ३ विरोकानां किरणानां अपगमे विनाशे आप्तः प्राप्तः शोको यैः ते भावद्विरोकापगमाप्तशोकाः ॥ १५ ॥ तमस्सु राज्ञा स्वमयूखदण्डै विखंड्यमानेष्वदयं तमोऽयात् । तमेव भेजे शरणं शरण्यं लक्ष्माभिधां किं तदलंभि लोकैः ॥ १६ ॥ ९ राज्ञा चन्द्रेण नृपेण वा खमयूखदण्डैरात्मीयकिरणरूप. दण्डैस्तमःसु अन्धकारेषु अदयं निर्दयं यथा भवति तथा विखंड्यमानेषु सत्सु यत्तमस्तमेव चन्द्रं शरणं भेजे, किं१२ विशिष्टं चन्द्रम् ? शरण्यं शरणहेतुम् । लोकैस्तमो अन्धकारं लक्ष्माभिधाम् लांछनाभिधानं किं न अलंभि न प्रापितं अपि तु प्रापितमेव ॥ १६॥ अत्रेर्द्विजादुद्भवति स न श्री तातात्पयोधेविधुरित्यवैमि । यजातमात्रप्रतिधिष्ण्यमेषो. १८ क्षिपत्करं श्रीलबलाभलोभात् ॥१७॥ अत्रे० एके चन्द्रं अत्रिनेत्र वदन्ति । कचिच्चतुर्दशरत्नमध्ये समुद्राज्जातं वदन्ति, परं अहं इति अवमि इति जानामि । इतीति किम् ? विधुश्चन्द्रः अत्रेर्द्विजात् अत्रिनाम्नो ब्राह्मणात् २२ उद्भवति स्म उत्पन्नः । श्रीतातात् पयोधेर्लक्ष्मीपितुः समुद्रात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy