SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ वर्गः: ] जैनकुमारसंभवं औत्पातिकं उत्पातकारि वा अथवा आनलं अनलोऽग्निस्तत्संबंधि धाम तेजो वर्त्तते ॥ १३ ॥ सुधानिधानं मृगपत्रलेखं, शुभ्रांशुकुम्भं शिरसा दधाना | कौसुंभवस्त्रायितचान्द्ररागा, प्राची जगन्मंगलदा तदाभूत् ॥ १४ ॥ सुधा० प्राची पूर्वदिग् तदा तस्मिन्नवसरे जगन्मङ्गलदा जगतो मङ्गलदायिनी अभूत् । किं कुर्वाणा ? शुभ्रांशुकुंभं शुभ्रांशुः चन्द्रः तमेव कुम्भं कलशं शिरसा दधाना, शुभ्रांशुशब्देन ९ रौप्यं तस्य कलशं दधाना । पुनः किंविशिष्टा : कौसुंभवस्त्रायितचान्द्ररागा, कौसुंभवस्त्रवदाचरितः, चन्द्रसंबंधी रागो यस्याः सा कौसुम्भवस्त्रायितचान्द्ररागा, किंलक्षणं शुभ्रांशुकुंभम् ? सुधा- १२ निधानं अमृतपूर्णम् । पुनः किंविशिष्टम् ? मृगपत्रलेखं मृग एव पत्रलेखा यस्मिन् तं मृगपत्रलेखम् ॥ १४ ॥ सांराविण राजकरोपनीतपीयूपपानैर्विहितं चकोरैः । भास्वद्विरोकापगमाप्तशोकाः, २०७ Jain Education International कोकाः क्षतक्षारमिवान्वभूवन् ॥ १५ ॥ सांरा० चकोरैर्विहितं कृतं सांराविणं कोलाहलं, कोकाश्चक्रवाकाः क्षतक्षारमिवान्वभूवन् क्षते व्रणे क्षारक्षेपमिवानुभवन्ति स्म । किंविशिष्टैः चकोरैः ? राजकरोपनीत पीयूषपानैः राजा चन्द्रो नृपो वा तस्य करेण हस्तेन किरणैर्वा उपनीतं २२ For Private & Personal Use Only १५ १८ www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy