SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २०६ टीकया सहितम् [षष्ठः यत्को० यत्कोकयुग्मस्य चक्रवाकमिथुनस्य निशादौ मित्रे सूर्य सुहृदि वा अस्तमिते सति वियोगवह्निर्जज्वाल । इदं तमिस्रं २ अन्धकारम् । किं न धूमराजि वर्तते । किंलक्षणं तमिस्रम् ? सोयोतखद्योतकुलस्फुलिंगं, सोयोतं यत् खद्योतकुलं तदेव स्फुलिंगा यत्र तत् ॥ ११ ॥ ६. अवेत्य पाटच्चरपांसुलानां, तमोबलादुर्ललितानि तानि । प्रभां दिशीन्द्रस्य तमोऽपनोदा९ मदीदृशत् स्वोदयचिह्नमिन्दुः ॥१२॥ अवे० इन्दुश्चन्द्रः इन्द्रस्य दिशि प्रभां अदीदृशत् दर्शितवान् । किंविशिष्टां प्रभाम् ? तमोऽपनोदां तमो अन्धकारं अपनोदयति १२ स्फोटयतीति तमोऽपनोदाम् ? पुनः किंविशिष्टाम् ? खोदयचि- हम् । आविष्टलिङ्गमेतत् । किं कृत्वा ? पाटचरपांसुलानां पाट चराणां तस्कराणां पांसुलानां असतीनां तमोबलात् तानि ३५वक्तुमशक्यानि दुर्ललितानि दुश्चेष्टितानि अवेत्य ज्ञात्वा ॥१२॥ धामेदमौत्पातिकमानलं, वे त्यहं वितन्वत्यसतीसमूहे । उदीतमेवैक्षत चन्द्रबिम्ब, पूर्वांबुधेः कोकनदश्रि लोकः ॥ १३ ॥ धामे० लोकः पूर्वांबुधेः पूर्वसमुद्राच्चन्द्रबिम्ब उदीतमेव ऐक्षत २१ आलुलोके । किंविशिष्टं चन्द्रम् ? कोकनदश्रि कोकनदं रक्तोत्पलं __तद्वत् श्रीः शोभा यस्य तत् । क सति ? असतीसमूहे इति २३ ऊहं विचारं वितन्वति कुर्वति सति । इतीति किम् ? इदं Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy