SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ सर्गः] जैनकुमारसंभवं २०५ तितांसति श्वैत्यमिहेन्दुरस्या, जाया निशा दित्सति कालिमानम् । अहो कलत्रं हृदयानुयायि, कलानिधीनामपि भाग्यलभ्यम् ॥९॥ तितां० इन्दुश्चन्द्र इह जगति श्वैत्यं धवलतां तितांसति विस्तारयितुमिच्छति । अस्य इन्दोर्जाया निशा कालिमानं ६ कृष्णत्वं दित्सति दातुमिच्छति । अहो इति आश्चर्ये । हृदयानुयायि मनोऽनुकूलं कलत्रं कलानिधीनामपि कलावताम प भाग्यलभ्यं स्यात् , यतः चन्द्रस्य कलावतोऽपि निशा प्रियास्ति ॥९॥९ दत्त्वा पतङ्गः प्रवसन्वसु खं, तमो निरोद्धं भुवि यान्ययुक्त । तैर्दीपभृत्यनिजनाथनाम विडम्बिनो हन्त हताः पतङ्गाः॥ १० ॥ दत्त्वा० पतङ्गः सूर्यः प्रवसन प्रवासं गच्छन् सन् , खं वसु द्रव्यं तेजो वा दत्त्वा तमो निरोद्धं अन्धकारं स्फोटयितुं यान- १५ दीपभृत्यान् भुवि पृथिव्यां नियुक्त व्यापारिनवान्, तैर्दीपभृत्यैः, हन्त इति वितर्के । निजनाथनाम वेडंबिनः पतंगा हताः, पतङ्गशब्देन सूर्यः शलभाश्चेति शब्दच्छलम् ॥ १० ॥१८ यत्कोकयुग्मस्य वियोगवह्निः ज्वाल मित्रेऽस्तमिते निशादौ । सोड्योतखद्योतकुलस्फुलिंग, तद्भुमराजिः किमिदं तमिस्रम् ॥ ११॥ २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy