Book Title: Jain Kumar Sambhava Mahakavyam
Author(s): Dharmshekharsuri, Jayshekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
१२
जैनकुमारसंभवं
दीधितिर्धृतजडिनि पावकी, वाग्विभो जयति कापि तावकी ॥ २ ॥
३ लब्ध० हे विभो ! खामिन् कापि तावकी त्वदीया वाक् जयति, किंलक्षणा वाक् ? लब्धवर्णजनकर्णकर्णिका लब्धवर्णजना विद्वज्जनास्तेषां कर्णयोः कर्णिका कर्णाभरणं, पुनः किं० ६ वाञ्छितार्थ फलसिद्धिवर्णिका स्पष्टं, पुनः किं० ? घृतजडिनि घृतजाड्ये पुरुषे पावकी पावकस्येयं पावकी वह्निसंबन्धिनी दीधितिः कान्तिः ॥ २ ॥
૧૮
३२६
२२
रूपमीश समकं दिदृक्षते, तावकं यदि सहस्रलोचनः । ईहते युगपदञ्चनं च ते, चेत्सहस्रकर एव नापरः ॥ ३ ॥
रूप हे ईश ! तावकं रूपं यदि दिदृक्षते विलोकयितुमीहते तर्हि सहस्रलोचन इन्द्र एव नापर: दिदृक्षते इत्यत्र " स्मृदृशः " १५ इति व्याकरणसूत्रेण आत्मनेपदं च अन्यत् चेत् यदि ते तव युगपदं वनं युगपत् समकालं अञ्चनं पूजनं ईहते. वाञ्छति, तदा सहस्रकरसूर्य एव न अपरः ॥ ३ ॥
"
[ दशमः
यो बिभर्ति रसना सहस्रकं, व्याहतत्वमधिरोप्य सोऽप्यलम् । देव वक्तुमखिलान्न ते गुणा
न्मादृशः किमबलाजनः पुनः ॥ ४ ॥
यो० हे देव ! यो व्याहतत्वं द्विगुणत्वं अधिरोप्य रसना -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org