Book Title: Jain Kumar Sambhava Mahakavyam
Author(s): Dharmshekharsuri, Jayshekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 384
________________ वर्ग::] जैनकुमारसंभवं ३६५ निश्चितं परिवृढी दृढीकाराभावे परिवृढस्य नायकस्य दृढीकारस्तस्य अभावे सति बले सैन्ये सति बलं कियद्भवति अपि तु न किमपि, अन्योपि शीतद्युतिः शीतलखभावो यः स्यात्, ३ सकठोरान्नश्यति तस्मिन्नष्टे तत्परिच्छदो विनश्यतीति भावः ॥ ८३ ॥ गम्भीराम्भः स्थितमथ जपन्मुद्रितास्यं निशायामन्तर्गुजन्मधुकरमिषान्नूनमा कृष्टिमंत्रम् । प्रातर्जातस्फुरणमरुणस्योदये चन्द्रविम्बादाकृष्याब्जं सपदि कमलां वांकतल्पीचकार ॥ ८४ ॥ ९ गंभी० अब्जं कमलं कमलां लक्ष्मी चन्द्रबिम्बात् आकृष्य सपदि झटिति खाङ्कतल्पीचकार, खोत्संगे निवेशयति स्मेत्यर्थः, किंलक्षणं अब्जं ? गंभीरान्तः स्थितं गंभीरजले स्थितं, किं कुर्वन् ? १२ नूनं निश्चितं निशायां रात्रौ अन्तर्मध्ये गुंजन् मधुकर मिषात् गुंजारवकारि भ्रमरछलात् मुद्रितास्यं मुद्रितमुखं सत् आकृष्टिमंत्र जपन्, आकर्षणमंत्रस्य जापं कुर्वाणं, पुनः किं वि० १५ अब्जं प्रातः प्रभाते जातस्फुरणं संजातमंत्र सिद्धिः, अन्योपि साधको जले स्थित्वा मौनेन रात्रौ मंत्र जपतीति भावः ॥ ८४ ॥ इति श्रीमदञ्चलगच्छे कविचक्रवर्तिश्रीजयशेखरसूरिविरचिते श्रीजैनकुमारसंभवस्य तच्छिष्यश्रीधर्मशेखरसूरिविरचित - टीकायां श्रीमाणिक्यसुन्दर सूरिशोधितायां दशमसर्गव्याख्या समाप्ता ॥ १० ॥ Jain Education International For Private & Personal Use Only ६ १८ २१ www.jainelibrary.org

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418