Book Title: Jain Kumar Sambhava Mahakavyam
Author(s): Dharmshekharsuri, Jayshekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 389
________________ जैनकुमारसंभवं [एकादशः मित्त्वा० उडुनीडजौघः नक्षत्ररूपः पक्षिसमूहः आलीनपूर्वः पूर्वनिविष्टः सन् सद्यस्तत्कालं वियत्तडागात् आकाशसरो३ वरात्, अपससार अपमृतः, क सति ? तमाशैवलजालं अन्धकाररूपशैवालसमूहं भित्त्वा स्फारकरे प्रौढकिरणे महाशुंडादंडे वा अंशुमालिद्विपे सूर्यरूपगजे प्रविष्टे सति ॥९॥ ६ किंचित्समासाद्य महः पतङ्ग पक्षः क्षपायां यदलोपि दीपैः। तां वैरशुद्धि व्यधिताभिभूय, ९ दीपान् प्रगे कोऽप्युदितः पतङ्गः ॥१०॥ किंचि० दीपैः क्षपायां रात्रौ किंचिन्महस्तेजः समासाद्य प्राप्य पतंगपक्षः शलभपक्षः पक्षे सूर्यपक्षे यत् अलोपि लुप्तः १२प्रगे प्रभाते कोऽपि पतंगः उदितः सन् दीपन् अभिभूय पराभूय वैरशुद्धिं व्यधित कृतवान् , अत्रापि पतङ्गः सूर्यः शलभो वा ज्ञेयः ॥ १० ॥ १५ गते रवौ संववृधेऽन्धकारो, - गतेऽन्धकारे च रविर्दिदीपे । तथापि भानुः प्रथितस्तमोभि१८ दहो यशो भाग्यवशोपलभ्यम् ॥ ११ ॥ गते० रवौ सूर्ये गते सति अन्धकारो ववृधे वृद्धि प्राप्तः अन्धकारशब्दः पुनपुंसकः अन्धकारे गते रविः सूर्यो दिदीपे २१ दीप्तः, तथापि भानुः सूर्यः तमोभित् अन्धकारभित् प्रथितो विख्यातः, अहो इत्याश्चर्ये यशो भाग्यवशेन उपलभ्यं प्राप्यं २३ वर्तते ॥ ११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418