Book Title: Jain Kumar Sambhava Mahakavyam
Author(s): Dharmshekharsuri, Jayshekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 403
________________ ३८४ १२ जैनकुमारसंभव यास्यन्ति दास्यं समुपास्य लाख, दूरे मनुष्या दनुजारयोऽपि ।। ४२ ।। अस्ये ० हे देवि ! ते सर्वप्रसिद्धाः सदानवा दानवसहिता दनुजारयोऽपि मागधवरदामप्रभास सिन्धुखंड प्रपातगुफातमिश्रगुफा सत्कप्रभृतिदेवा अपि अस्य तव पुत्रस्य लास्यं ३ नाट्यं समुपास्य कृत्वा अस्य तव पुत्रस्य दास्यं यास्यन्ति, किंविशिष्टा दनुजारयः इषुपुंखाया अक्षरदर्शनेन क्षरन्मदाः नश्यद्द्भर्वाः, किं कुर्वतोऽस्य ? संख्यं संग्रामं अतन्वतोऽपि ९ अकुर्वतोऽपि ॥ ४२ ॥ अस्मिन् दधाने भरताभिधानमुपेष्यतो भूमिरियं च गीश्व । विद्वद्भुवि स्वात्मनि भारतीति, ख्यातौ मुदं सत्प्रभुलाभजन्माम् ॥ ४३ ॥ अस्मि० अस्मिन् तव पुत्रे भरताभिधानं दधाने सति इयं १५ भूमिः पृथ्वी च अन्यत् गीः सरखतीव विद्वद्भुवि विद्वज्जनस्थाने स्वात्मनि आत्मविषये भारतीति ख्यातौ सत्यां सत्प्रभुलाभजन्मां, सुखामिप्राप्तिसमुत्पन्नां, मुदं हर्ष उपेष्यतः, १ प्राप्स्यतः, विद्वांस इति विदन्ति, भरतस्येयं भारती, भरतक्षेत्रभूमिः सरखती वा ॥ ४३ ॥ २२ उदच्यमाना अपि यान्ति निष्ठां, सूत्रेषु जैनेष्विव येषु नार्थाः । [ एकादश Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418