Book Title: Jain Kumar Sambhava Mahakavyam
Author(s): Dharmshekharsuri, Jayshekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सर्ग: ]
टीकया सहितम्
छत्रमत्रुटितचारिम चोक्षे, चामरे शयनमुच्चविशालम् । यन्मनोऽभिमतमन्यदपीन्द्रातु स्तुतिपदं तदवाप ॥ २६ ॥
छन्न० अत्रुटितचारिम अत्रुटितः अच्छिन्नः चारिमा रमणीयत्वं यस्य तत् छत्रम्, चोक्षे पवित्रे चामरे, उच्चविशालं ६ शयनं । अन्यदपि यद्वस्तु मनोहारि तद्वस्तु भगवान् इन्द्रात् अवाप प्राप्तः । किंविशिष्टं वस्तु ? स्तुतिपदं स्तुतेः श्लाघायाः पदं स्थानम् ॥ २७ ॥
नायकस्त्रिभुवनस्य न चार्थी, दायकथ कथमस्य दिवीशः ।
किन्तु वाहितमुवाच विवाहप्रान्तरं तनुभृतामयमेवम् ॥ २७ ॥
नाय० त्रिभुवनस्य नायकोऽर्थी याचको न स्यात्, दिवीश इन्द्रः अस्य भगवतो दायकः कथं स्यात् । किंतु अयं भगवान् तनुभृतां प्राणिनां विवाहप्रान्तरं विवाहस्य दूरशून्यमार्गं एवं अमुना प्रकारेण वाहितं उवाच ॥ २८ ॥
वल्लनावसरपाणिगृहीतीवक्रसंगमितपाणिरराजत् ।
१७५
Jain Education International
For Private & Personal Use Only
९
१२
१५
जातयत्न इव जातिविरोधं, सोमतामरसयोः स निहन्तुम् ॥ २८ ॥
चल्ल० स भगवान् वल्लनावसरपाणिगृहीतीवऋसंगमित - २२
१८
www.jainelibrary.org