Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 231
________________ INS श्रीजैन कथासंग्रहः कामदेवनृपति कथा। BENEHEYENEYLIENNNNN धन्योऽवादीत्-इमानि हस्तिनः पदानि । धर्मेणोक्तं विचार्य- हस्तिन्याः पदानि, सा च वामाक्षिकाणा, तस्यां चाऽऽसन्नपुत्रप्रसवा राज्ञी चटिताऽस्ति । एवं वार्तयन्तौ पुराट् बहिर्गतौ । तादृशीमेव हस्तिनी वीक्ष्य जवनिकान्तरिताया राज्याः पुत्रप्रसवं च श्रुत्वा पुनश्चलितौ क्वापि ग्रामे सरस्तीरे निविष्टौ एकया वृद्धया पृष्टी-मम पुत्रो देशान्तरं गतः कदैष्यतीति । तावता कयाचिन्नार्या तोयेन भृत्वा शीर्षे रोप्यमाणो घटः पतित्वा भग्नस्ताभ्यां दृष्टः । धन्येनोक्तम्-भद्रे विनष्टो हि तव पुत्रः। तदा धर्मेणोक्तम्-मातः ! शीघ्र गृहं व्रज, समेतस्ते पुत्रः । स्थविरा गृहं गता पुत्रं समेतं वीक्ष्य हष्टाऽक्षतपात्र-कुकुम-कुसुमपुगीफलादिकमादाय सरस्थागत्य धर्म वर्धापयामास । ततो द्वावपि गतौ गुसपार्वे प्रोचतुः स्वं स्वं ज्ञानम् । गुरुणा कथमिति पृष्टे धन्योऽभणत्- प्रौढपदानि दृष्ट्रवा हस्तिन: पदानि, घटो भग्नो जलं गतं तथा देहो भग्नो जीवो गतो मयेत्युक्तम् । धर्मेणोक्तम्-निरोधानुमानेन हस्तिनीम्, पथि वामदिग्वर्त्तिवृक्षपत्रादिराकृष्टमिति वामाक्षिकाणा, तस्यां च राजा वा राज्ञी वाऽन्यः परं कौसम्भतन्तवो वृत्तिकण्टकेषु दृष्टा इति राज्ञी, तस्याश्च वटस्याधो विश्रम्य हस्ताभ्यां भुवमाक्रम्योत्तिष्ठन्त्या दक्षिणपाणेनिमग्नतमं प्रतिबिम्बं दृष्ट्वा प्रत्यासन्नपुत्रप्रसवा । तथा या घटमृत्तिका भूमितः पृथग् गता सा तस्या मिलिता, यच्च जलं सरोजलात्पृथक्कृतं तदपि तस्य मिलितम्, ततो नूनं वृद्धायाः पुत्रः MEHEYENEVERY ३ ॥३९॥ .

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270