Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 243
________________ श्रीजैन कथासंग्रहः पूर्ण सैन्यं तारमरोदीत् । सौभाग्यमञ्जरी नैमित्तिकं गत्वा फलादिकं दत्त्वा पृष्टः सः प्रोचे-न धार्याऽऽल्पाऽपि शोकधीः। सार्धवर्षेण कुमारः प्राप्तैश्वर्योऽत्रैवैष्यतीति । जातो हर्षः । अथामात्यः कुमाराऽऽगमं यावदत्रैव स्थीयतामिति तत्रैव सेनामस्थापयत् । इतश्च कलापी कुमारं गृहीत्वा वैताद्यगिरौ विद्याधरचक्रवर्तिनो रत्नाङ्गदस्य रथनूपुरपुरोद्याने मुमोच । ततो रत्नाङ्गदचक्री सङ्मुखमागत्य विनयपूर्वकं पुरान्तः सौधमध्ये प्रवेश्य सिंहासने निवेश्योवाच- कुमारेन्द्र ! शृणु-मत्पुत्री रत्नमञ्जरी सिद्धायतने देवान् पूजयित्वा मण्डपे मधुरस्वरेण स्तोत्रमेकचित्ता पठन्ती देवार्चनार्थं तत्राऽऽगतया लक्ष्म्या दृष्टा सस्वरा श्रुता । ततस्तुष्टया वरो दत्तः - कामदेवस्ते वरो भूयात् । स चाऽधुना सौभाग्यमञ्जरीं परिणीयायोध्यां स्वां पुरीं प्रतिव्रजन्नस्ति इति लक्ष्मीवचो मया ज्ञात्वा केकिछद्यना त्वमत्राऽऽनायितः ततोऽस्वा मत्पुत्र्याः पाणिग्रहणं कुरु । कुमारोऽवादीत् - राजेन्द्र ! षोडशमासीमेकान्तरोपवासान् कृत्वा मया कार्यान्तराणि कार्याणि । चक्री प्राह-साधय स्ववाञ्छितम् । ततः कुमारश्चक्रिसान्निध्यात् त्रिकालं सिद्धायतने देवपूजां कुर्वन्नेकचित्तः प्रायश्चित्ततपः सम्पूर्णमकरोत् । अथ च क्षीणे ज्ञानान्तरायकर्मणि लक्ष्मीदत्तारोहिण्यादयो महाविद्यां लीलया साधयामास । अथ शुभलग्ने नवनवैर्महोत्सवैः रत्नमञ्जरीं परिणीय तत्रान्यत्र च सर्वविद्याधराधीशबहुमानं लभमानो मासद्वयं तत्र स्थित्वा दिव्यं विमानमारुह्य सपत्नीको कामदेव नृपति कथा | ॥५१॥

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270