Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
सीधन्यकथानकम्।
श्रीजैन कथासंग्रहः
॥१०॥
च। देहच्छायेव तनूनं स्थास्यामि श्वशुरालये ॥ १११॥ हृष्टः श्रेष्ठी वभूक्त्या स पलीपुत्रवधुतः । मुद्रां दत्त्वा गृहद्वारे निर्ययौ तत्पुरान्निशि ॥ ११२ ॥ ग्रामाडोमान्तरं भ्राम्यन् कर्म कुर्वन् परालये । प्रापद्विधिविलासेन कौशाम्बी नगरी क्रमात् ॥ ११३ ।। श्रेष्ठी तत्र नरं दृष्टाऽपृच्छो भद्र! कथ्यताम्। निद्रव्यो यो जनोऽनति निर्वहेत्स कथं पुरे ? ॥११४ ।। नरः प्रोवाच हे श्रेष्ठिन् ! व्यवसायेन धीधनाः । वर्तन्तेऽत्र धनाड्या येते धनेन धनेश्वराः॥११५॥ वाणिज्यादिकृते द्रव्यं निःस्वस्यापि विलोक्यते। स्वं विना गौरवं नास्ति स्वजनस्य गृहेऽपि च ॥ ११६ ॥ धन्यस्य साधुराजस्य खन्यते साम्प्रतं सरः । तत्र कर्मकरा: सर्वे मृत्तिकाकर्षणोद्यताः ॥ ११७ ।। नराणां दीयते तत्र दीनारद्वितयं सदा । एकं स्त्रीणां प्रवाहेण कटाह्यांभोजनं पुनः॥११८॥ स श्रुत्वा सकुटुम्बोऽपि ययौ तत्र सरोवरे। खनन् कर्मकरः सार्थ वासराण्यत्यवाहयत् ॥ ११९ ॥ अन्येचुराययौ तत्र सरोवरविलोकने । अश्वारूडो घृतच्छत्रः पदातिश्रेणिवेष्टितः ॥ १२० ।। हाराहारके यूरकुमलैश्व विभूषितः । धन्यसाधुर्जयेत्यादिवादिभिर्बन्दिभिर्वृतः॥ १२१ ॥ युग्मम् ॥ ततः कर्मकरास्तेऽपि कर्म त्यक्त्वा निजं निजम् । नमन्ति स्म महाभक्त्या जीव जीवेति भाषिणः ॥ १२२ ॥ तेषां मध्ये तथावस्थं स्वकुटुम्बं निरीक्ष्य सः । दध्यौ किमेतद्देवेन कृतमीदृशमप्यहो! ॥ १२३ ॥ माता चेयं पिता. चायं ममैते सोदरास्तथा । प्रातृजाया
॥१०॥

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270