Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 262
________________ कथासंग्रहः ॥ १४॥ overererererere किल्ल ।। १६२ ।। तथापि कथयिष्यामस्तं गत्वा विनयोक्तिभिः । विसृज्य श्रेष्ठिनं तेऽपि धन्यस्याने न्यवेदयन् ।। १६३ ।। धन्यस्त्वं राजजामाता धन्यस्त्वं साधुशेखरः । तवेदं युज्यते नैव परस्त्रीहरणं शुभम् ॥ १६४ ॥ तेषामिति वचः श्रुत्वा किञ्चित्स्मितधृताधरः । वार्तामन्यां तदाऽऽरेभे धन्यो धन्यशिरोमणिः ।। १६५ ।। धन्यस्यापि मनो ज्ञात्वा ते चोत्थाय गृहं ययुः । श्रेष्ठी तत्र स्वयं गत्वा धन्यसाधुं व्यजिज्ञपत् ।। १६६ ।। अन्यायं कुरुते योऽत्र तद्दण्डः क्रियते त्वया । तदन्यायं परित्यज्य वधूं मुच ममाधुना ।। १६७॥ भटानाह वं श्रेष्ठी याचते तत्समर्प्यताम् । ते श्रेष्ठिनमुपादाय सौधान्तर्मुमुचुः क्षणात् ।। १६९ ।। गत्वा धन्योऽपि तं नत्वा प्रोचे विरचिताञ्जलिः । क्षन्तव्यं तातपादैश्च चापल्यं मम निर्मितम् ॥ १६९ ॥ उत्फुल्लवदनो जातो ज्ञात्वा श्रेष्ठी निजं सुतम्। पत्नीपुत्रादिकं पञ्चाद्विस्मृतं तस्य हर्षतः ।। १७० ।। मध्ये प्रविश्य माताऽपि धन्यसाधुमधावदत् । गृहीता मे बधूर्या हि सास्तु दूरे पतिर्मम ॥ १७१ ॥ दर्शयेति तथेत्युक्तो धन्यः स्वाम्बामधानमत् । क्रमाच्च भ्रातरः सर्वे तत्रायाता प्रजेमिरे ॥ १७१ ॥ युग्मम् ॥ भ्रातृजायाः पुनद्वार पूत्कुर्वन्ति परस्परम् । न ज्ञायतेऽत्र किं भावि राजसौधमिदं ननु ।। १७३ ।। ततः प्रहरमेकं च ताः स्थित्वा द्वारवर्त्मनि । दुःखार्दिताः समाजग्मुः स्वकुटीरे दिनात्यये ॥ १७४ ॥ शतानीकसभां प्रातर्मन्त्रिसामन्तसंयुताम् । रावां विधातुं धन्यस्य ता ययुः कुलयोषितः ॥ १७५ ॥ चिरं जीव चिरं नन्द 1 ******* श्री धन्यकथानकम् । ॥१४॥

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270