Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंग्रहः
श्री धन्यकथामकम् ।
॥२१॥
प्राहुः श्रुणु स्वीयं भवं शुभे! । यदा धन्योऽभवत्पूर्व वत्सपालकबालकः ॥ २५५ ।। तदा यूयं चतम्रोऽस्य प्रातिवेश्मिकतां गताः । सोमश्रीस्त्वं च सा पुष्पवती सौभाग्यमञ्जरी ॥ २५६ ॥ धन्येन प्रार्थिते भक्ष्ये रुरोद जननी यदा। मिमीलुः सदयास्तत्र चतस्त्र: प्रमदास्तदा ॥ २५७ ।। एकया प्रददे दुग्धं तण्डुलाश्च द्वितीयया। खण्डस्तृतीयया प्राज्यमाज्यं वयं च तुर्यया ॥२५८।। ताभिरप्यर्जितं पुण्यं दाननैपुण्ययोगतः । त्वया मृद्वहने कर्म यथा बद्धं तथा शृणु ॥२५९ ॥ वहन्ती गोमयं शीर्षे दासी किञ्चिद्यजीजपत् । त्वां महेभ्यप्रियां त्वं च सतिरस्कारमब्रवीः ॥ २६० ॥ भारमुबह रे दासि ! गिरैवं दूयते स्म सा । त्वं स्वसाशालिभद्रस्याप्यवहो मृत्तिकां ततः ॥ २६१ ॥ इत्येवं संशयं भित्त्वा नत्वा सूरिवरं मुदा । धन्यः सपरिवारोऽपि जगाम निजमन्दिरम् ॥२६२॥ आश्चर्यकारि भुञ्जानः प्राच्यपुण्यतरोः फलम् । समयं गमयामास धन्यः सुखमयं सदा ॥ २६३॥ यथा धन्यस्य वैराग्यं यथा चायं व्रतं ललौ। तत्सबै विबुधैर्जेयंशालिभद्रकथानकात् ।। २६४ ॥ किञ्चिदग्रेतनं किञ्चिन्नव्यं गुरुमुखाच्छु तम् । अग्निरसगुणस्थान (१४६३) संख्ये विक्रमवत्सरे ॥ २६५ ॥ श्रीजयभद्रसूरीन्द्रशिष्यलेशेन धीमता। दयावर्द्धनसंज्ञेन चक्रे धन्यनिदर्शनम् ॥ २६६ ॥ ॥ युग्मम्॥ ॥इति भावयुते दाने धन्यकथा । दानं दत्त्वा यः पश्चात्तापं करोति तदर्थे धन्यप्रातृत्रयकथा ॥ शुभं भूयात् ॥
समाप्तमिदं दानधर्मोपरि धन्यकथानकम्।
॥२१॥

Page Navigation
1 ... 267 268 269 270