Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंग्रहः
॥१६॥
अथामात्यैश्च ताः पृष्टा युष्माकं कोऽपि विद्यते । धन्याभिधः स्वजनश्च बान्धवो देवरोऽपि वा ॥ १९० ॥ ताः प्रोचुर्देवरोऽस्माकं धन्यनामाऽभवत् पुरा । गृहान्निःसृत्य कुत्रापि गतो जीवति वा मृतः ? ॥। १९१ ।। सचिवैः प्रोचिरे यूयं लक्षणं वित्थ देहजम् ? देवरस्य च धन्यस्य येन स प्रकटो भवेत् । १९२ ।। ताः प्राहुर्देवरोऽस्माकं बालकोऽभूत् पुरा यदा । तदा प्रक्षालने दृष्टी पादौ पद्माङ्कितौ किल ।। १९३ ।। तैरूचे तर्हि धन्यस्य चिह्नवीक्षणहेतवे । प्रक्षाल्यतां क्रमौ भक्त्या देवरो वा विभाव्यते ।। १९४ ।। ततस्ताः कटकं प्राप्ताः साकं तैर्नृपमन्त्रिभिः । भ्रातृजायात्रयं वीक्ष्य धन्यो नत्वाऽब्रवीदिति ॥ १९५ ॥ यूयं किमर्थमायाताः ? किमस्माभिः प्रयोजनम् ? । ताः प्रोचुर्देवरोऽसि त्वं नित्यं प्राणप्रियो हि नः ।। १९६ ॥ धन्योऽवक् किं भ्रमो जज्ञे भवतीनां हृदि स्फुटम् । स धन्यः श्रूयते राजगृहेशस्य सुतापतिः ॥ १९७ ॥ लक्षणं विद्यतेऽस्माकं देवरस्य क्रमाम्बुजे । प्रक्षाल्य त्वत्क्रमी भक्त्या ज्ञास्यामो देवरं निजम् ।। १९८ ।। डूचे धन्यः परस्त्रीणां स्पर्शाद्भवति पातकम्। नाहं परस्त्रिया सार्धं वच्मि स्पर्शे तु का कथा ? ।। १९९ ॥ इत्युक्ते ताः स्थिता मौनमालम्ब्य सचिवैस्ततः । मा खेदय मुधा धन्य ! भ्रातृजायास्तवैव हि ॥ २०० ॥ इत्यादि सचिवैरुक्तो धन्यो धन्यपुरस्सरः । भ्रातृजायात्रयं नत्वा प्रैषीन्निजनिकेतने ॥ २०९ ॥ अथ सैन्यस्य संरम्भं त्यक्त्वा नृपतिं ययौ । नृपोऽप्यर्धासनं दत्त्वा धन्यंमन्यो जगाद तम् ॥ २०२ ॥ भ्रातृजायाः कथं
श्री धन्यकथानकम् ।
॥१६॥

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270