Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्री धन्यकथानकम्।
श्रीजैन कथासंग्रहः
॥११॥
.पुनरियं सुभद्रा प्राणवल्लभा॥१२४॥ गोभद्रो जनको यस्या भद्रा यस्या जनन्यहो। शालिभद्रानुजा सेयं
शीर्षे वहति मृत्तिकाम् ॥ १२५ ॥ विचिन्त्येति स तान् प्राह कुतो यूयं समागताः ? । स्थाननामादि संगोप्य मृषा तेऽप्युत्तरं ददुः ॥ १२६ ॥ धन्यसाधुस्तदाकर्ण्य नोपलक्षन्ति साम्प्रतम् । ममैते स्वजना दुःस्थावस्थायां पतिताः खलु ॥१२७॥ भोजने स्वकुटुम्बस्य साकं कर्मकरैश्च तैः। घृतदानं तदा दत्त्वा निजालयमगात् पुनः॥१२८ ॥ ततः कर्मकराः सर्वे प्रवदन्ति परस्परम् । तैलस्थाने घृतं चाभूदेतेषां हि प्रभावतः ॥ १२९ ॥ द्वितीयेऽपि दिनेऽथागाद्धन्यस्तत्र सरोवरे । आहूय श्रेष्ठिनं प्रोचे सुधामधुरया गिरा ॥१३०॥ श्रीमतां च कुटुम्बं हि मन्येऽहं भवतां स्फुटम् । कुतश्चेयमवस्था वस्तत्सत्यं मम कथ्यताम् ॥१३१ ॥ पृष्टोऽप्येवं तदा श्रेष्ठी नावदल्लजया स्फुटम् । सोऽवक् भवेत्कुटुम्बस्य तक्राभावे निशान्धता ॥१३२॥ गृहेऽस्ति प्रचुरं तर्क ग्राह्यंयुष्माभिरन्वहम् । घटमेकं कुटुम्बार्थे संप्रेष्या च निजा वधूः॥१३॥ महान्प्रसादस्तं प्राह श्रेष्ठी विरचिताञ्जलिः । धन्यो दैवगति निन्दन् गृहं प्राप जनैर्वृतः ॥ १३४ ॥ अथ धन्यगृहे श्रेष्ठी तक्रानयनहेतवे । वारकेण सदा प्रेषीद्वधूनां तच्चतुष्टयम् ॥ १३५ ॥ धन्यादेशान्महाभव्यं तक्रं राजसुता ददौ । सुभद्रा च यदाऽभ्येति तदा धन्यो वदत्यदः ॥ १३६ ॥ प्रिये ! जानीहि श्रेष्ठयस्ति तस्य पुत्रचतुष्टयम् । तेषां पत्न्यः क्रमादेता लघ्व्येषा तु विशेषतः ॥ १३७ ॥ गृहं तव यदाऽऽयाति तदा
॥११॥
.

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270