Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
कामदेवनृपति
कथा।
कथासंग्रहः
100000५Lengamne
YYYYYLLY
मामुद्वहति ३, एकैकस्य प्लोकस्य यः सहसमर्थ वक्ति स मे वोढा ४ । इत्येतत्तासां वाचः श्रुत्वा पिता स्वयंवरोत्सवार्थ राज्ञो राजकुमारांश्चाकारयत् । तदा च सुग्रीवोऽपि सपुत्रस्तत्रागात् । अथ स्वयंवरमण्डपे निविष्टे राजलोके समागता नरविमानाऽऽरूढाश्चतम्रोऽपि कुमार्यः प्रतिहार्या राजवर्णने कृते निजनिजप्रतिज्ञां प्रकटयामासुः । ततस्तत्प्रतिज्ञापूरणेऽशक्तत्वात्तूष्णीस्थिते सर्वराजवर्गे सुग्रीवराजादेशाच्चतुर्भिरपि कुमारैः क्रमात् पूरितास्तासां प्रतिज्ञाः। क्षिप्ता बालाभिस्तेषां कण्ठे वरमाला । जातो जयजयारवः । तदा च तद्गुणरञ्जितचेतोभिर्भूपैस्तेषां प्रत्येकं प्रत्येकं दत्ता द्वात्रिंशद् द्वात्रिंशत्कन्यकाः। निष्पन्नो विवाहोत्सवः । सर्वेऽपि सम्मानिता राजानः स्वं स्वं स्थानं ययुः । अतीते दशाहोत्सवे सवधूकैः कुमारैः सह सुग्रीवो राजा स्वपुरीं गत्वा राज्यमपालयत् । कुमाराश्चत्वारोऽपि महाप्राज्ञतया ख्याति प्राप्ताः'। अतो दूरदेशवासिनोऽनेके राजानो राजकुमाराच महापण्डितयुक्ताः सर्वशास्त्रसन्देहापनोदार्थ तत्राऽऽगत्य राजसभास्थितांस्तान्समुपासते। एवं पितुः प्रसादात्सकलसुखानि भुञ्जानानां तेषां बहुकालोऽतिक्रान्तः । अन्यदा पुत्रादिपरिवारसहितो नरेश्वरो वने केवलिनं साधुंसमवसृतं नत्वाऽप्राक्षीत्-प्रभो ! केन सुकृतेनामी मत्पुत्रा महाप्राज्ञा जज्ञिरे ? केवली चाग्निशमविप्रपुत्रप्रमुखां भवचतुष्ककथां सर्वामुक्त्वा तृतीयभवे दीक्षामादाय ज्ञानस्य सर्वाऽऽशातनात्यागेनाऽऽराधनया ज्ञानिनां
१५00५gaeae
॥४६॥

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270