Book Title: Jain Inscriptions of Rajasthan
Author(s): Ramvallabh Somani
Publisher: Rajasthan Prakrit Bharti Sansthan Jaipur
View full book text
________________
सोऽयं पुनर्दाशरथिः पृथिव्या-मध्याहतीजाः स्फुटमुज्जगाम । मारीचवैरादिव योऽधुनापि (म) गव्यमव्यग्रमतिः करोति ।।37।।
सामन्तसिंहसमितिक्षितिविक्षतौजःश्रीगूर्जरक्षितिपरक्षणदक्षिणासिः । प्रह्लादनस्तदनुजो दनुजोत्तमारि
चारित्रमत्र पुनरुज्ज्वलयाञ्चकार ।।38।। देवी सरोजासनसम्भवा किं कामप्रदा किं सुरसौरभेयी । प्रह्लादनाकारधरा धराया-मायातवत्येष न निश्चयो मे ॥391
धारावर्षसुतोऽयं जयति श्रीसोमसिंहदेवो यः । पितृतः शौर्य विद्यां पितृव्यकाहानमुभयतो जगृहे ।।40।। मुक्त्वा विप्रकरानरातिनिकरानिज्जित्य तत्किञ्चन प्रापत्सम्प्रति सोमसिंहनृपतिः सोमप्रकाशं यशः ।
येनोर्वीतलमुज्ज्वलं रचयताप्युत्ताम्यतामीर्घाया सर्वेशा (षा)मिह विद्विषां न हि मुखान्मालिन्यमुन्मूलितम् ॥41॥
वसुदेवस्येव सुतः कृष्णः कृष्णराजदेवोऽस्य । मात्राधिकप्रतापो यशोदयासंश्रितो जयति ।।42॥
इतश्च अन्वयेन विनयेन विद्यया विक्रमेण सुकृतक्रमेण च । क्वापि कोऽपि न पुमानुपैति मे वस्तुपालसदृशो दृशोः पथि ।।43।।
दयिता ललितादेवी तनयमवीतनयमाप सचिवेन्द्रात् ।
नाम्ना जयन्तसिंह जयन्तमिन्द्रात्पुलोमपुत्रीव ।।44।। यः शैशवे विनयवैरिणि बोधबन्ध्ये धत्ते नयं च विनयं च गुणोदयं च । सोऽयं मनोभवपराभवजागरूक-रूपो न कं मनसि चुम्बति
__ जैत्रसिंहः ॥45॥ श्रीवस्तुपालपुत्र: कल्पायुरयं जयतसिंहोऽस्तु । कामादधिकं रूपं निरूप्यते यस्य दानं च ॥46।। स श्रीतेजःपालः सचिवश्चिरकालमस्तु तेजस्वी । येन जना निश्चिन्ताश्चिन्तामणिनेव नन्दति ।।47।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350