Book Title: Jain Inscriptions of Rajasthan
Author(s): Ramvallabh Somani
Publisher: Rajasthan Prakrit Bharti Sansthan Jaipur

Previous | Next

Page 337
________________ प्रणतभवभृतां सिद्धिसौधप्रवेशे यस्य स्कन्धप्रदेशे विलसति गवलश्यामला कुन्तलाली ।।11। श्रीचाहुमानकुलाम्बरमृगाङ्कश्रीमहाराज अणहिलान्वयोद्भव-श्रीमहाराजपाल्हणसुत......"विलीदुर्ललितदलितरिपुबलश्रीमहाराजकीर्तिपालदेवहदयानन्दिनन्दनमहाराजश्रीसमरसिंहदेवकल्याणविजयराज्ये तत्पादपद्मोपजी विनि निजप्रौढिमातिरेकतिरस्कृतसकलपील्वाहिकामण्डलत [स्क] रव्यतिकरे राज्यचिन्तके जोजलराजपुत्रे इत्येवं कालं (ले) प्रवर्त्तमाने . ......... (f) रपुकुलकमलेन्दुः पुण्यलावण्यपात्रं नयविनयनिधानं धामसौन्दर्यलक्ष्म्याः । धरणितरुणनारीलोचनानन्दकारी जयति समरसिंहक्ष्मापतिः सिंहवृत्तिः ।।2।। तथा । औत्पत्तिकीप्रमुखबुद्धिचतुष्टयेन निर्णीतभूपभवनोचितकार्यवृत्तिः । यन्मातुलः समभवत् किल जोजलाह्वो... (दोर्दण्ड ?) खण्डितदुरन्तविपक्षलक्ष: ।।3।। श्रीचन्द्रगच्छमुखमण्डनसुविहितयतितिलकसुगुरुश्रीश्रीचन्द्रसूरिचरणनलिनयुगलदुर्ललितराजहंसश्रीपूर्णभद्रसूरिचरणकमलपरिचरणचतुरमधुकरेण समस्तगोष्ठिकसमुदायसमन्वितेन श्रीश्रीमालवंशविभूषणश्रेष्ठियशोदेवसुतेन सदाज्ञाकारिनिज . .. (भ्रा)तृ-यशोराज-जगधरविधीयमाननिखिलमनोरथेन श्रेष्टि (ष्ठि) यशोवीरपरमश्रावकेण संवत् 1239 वैशाख सुदि 5 गुरौ सकलत्रिलोकीतलाभोगभ्रमणपरिश्रां [त] कमलाविलासिनीविश्रामविलासमन्दिरं अयं मण्डपो निर्मापितः । तथाहि ।। नानादेशसमागतैनवनवैः स्त्रीपुसवर्गमु[हु] यस्यै...."वावलोकनपरै! तृप्तिरासाद्यते । स्मारं स्मारमथो यदीयरचनावैचित्र्यविस्फूजितं तैः स्वस्थानगतैरपि प्रतिदिनं सोत्कण्ठमावर्ण्यते ॥4।। वि [श्व] भरावरवधूतिलकं किमेतल्लीलारविन्दमथ किं दुहितुः पयोधेः । दत्तं सुरैरमृतकुण्डमिदं किमत्र यस्यावलोकनविधौ विविधा विकल्पाः ।।5।। गर्तापूरेण पातालं ....... (विस्तारे ?) [ण] महीतलं । तुङ्गत्वेन नभो येन व्यानशे भुवनत्रयम् ।।6।। किंच ।। स्फूर्जव्योमसर : समीनमकरं कन्यालिकुम्भा [कु] लं मेषाढय सकुलीरसिंहमिथुनं 58 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350