SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ सोऽयं पुनर्दाशरथिः पृथिव्या-मध्याहतीजाः स्फुटमुज्जगाम । मारीचवैरादिव योऽधुनापि (म) गव्यमव्यग्रमतिः करोति ।।37।। सामन्तसिंहसमितिक्षितिविक्षतौजःश्रीगूर्जरक्षितिपरक्षणदक्षिणासिः । प्रह्लादनस्तदनुजो दनुजोत्तमारि चारित्रमत्र पुनरुज्ज्वलयाञ्चकार ।।38।। देवी सरोजासनसम्भवा किं कामप्रदा किं सुरसौरभेयी । प्रह्लादनाकारधरा धराया-मायातवत्येष न निश्चयो मे ॥391 धारावर्षसुतोऽयं जयति श्रीसोमसिंहदेवो यः । पितृतः शौर्य विद्यां पितृव्यकाहानमुभयतो जगृहे ।।40।। मुक्त्वा विप्रकरानरातिनिकरानिज्जित्य तत्किञ्चन प्रापत्सम्प्रति सोमसिंहनृपतिः सोमप्रकाशं यशः । येनोर्वीतलमुज्ज्वलं रचयताप्युत्ताम्यतामीर्घाया सर्वेशा (षा)मिह विद्विषां न हि मुखान्मालिन्यमुन्मूलितम् ॥41॥ वसुदेवस्येव सुतः कृष्णः कृष्णराजदेवोऽस्य । मात्राधिकप्रतापो यशोदयासंश्रितो जयति ।।42॥ इतश्च अन्वयेन विनयेन विद्यया विक्रमेण सुकृतक्रमेण च । क्वापि कोऽपि न पुमानुपैति मे वस्तुपालसदृशो दृशोः पथि ।।43।। दयिता ललितादेवी तनयमवीतनयमाप सचिवेन्द्रात् । नाम्ना जयन्तसिंह जयन्तमिन्द्रात्पुलोमपुत्रीव ।।44।। यः शैशवे विनयवैरिणि बोधबन्ध्ये धत्ते नयं च विनयं च गुणोदयं च । सोऽयं मनोभवपराभवजागरूक-रूपो न कं मनसि चुम्बति __ जैत्रसिंहः ॥45॥ श्रीवस्तुपालपुत्र: कल्पायुरयं जयतसिंहोऽस्तु । कामादधिकं रूपं निरूप्यते यस्य दानं च ॥46।। स श्रीतेजःपालः सचिवश्चिरकालमस्तु तेजस्वी । येन जना निश्चिन्ताश्चिन्तामणिनेव नन्दति ।।47।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001596
Book TitleJain Inscriptions of Rajasthan
Original Sutra AuthorN/A
AuthorRamvallabh Somani
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1982
Total Pages350
LanguageEnglish
ClassificationBook_English, Art, & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy