SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ बच्चाणक्यामरगुरुमायाधिशुक्रादिकाना प्रागुत्पादं व्यधित भुवने मन्त्रिणां बुद्धिधाम्नाम् । चक्रेऽभ्यासः स खलु विधिना नूनमेनं विधातु तेजःपाल कथमितरथाधिक्यमापैष तेषु ।।48।। अस्ति स्वस्तिनिकेतनं तनुभृतां श्रीवस्तुपालानुजस्तेजःपाल इति स्थिति बलिकृतामूर्वीतले पालयन् । आत्मीयं बहुमन्यते न हि गुणग्रामं च कामन्दकिश्चाणक्योऽपि चमत्करोति न हृदि प्रेक्षास्पदं प्रेक्ष्य यंम् ।।49।। इतश्च महं० श्रीतेजःपालस्य पत्न्याः श्रीअनुपमदेव्याः पितृवंशवर्णनम् ।। प्राग्वाटान्वयमण्डनैकमुकुट: श्रीसान्द्रचन्द्रावतीवास्तव्यः स्तवनीयकीतिलहरिप्रक्षालितक्ष्मातलः । श्रीगागाभिधया सुधीरजनि यद्वृत्तानुरागादभूत् को नाप्तप्रमदो न दोलितशिरा नोद्भूतरोमा पुमान् ।।50।। अनुसृतसज्जनसरणिर्धरणिगनामा बभूव तत्तनयः । स्वप्रभु हृदये गुणिना हारेणेव स्थितं येन ।।51।। त्रिभुवनदेवी तस्य त्रिभुवनविख्यातशीलसम्पन्ना दयिताऽभूदनयोः पुनरंग द्वेधा मनस्त्वेकम् ।। 52।। अनुपमदेवी देवी साक्षाद्दाक्षायणीव शीलेन तदुहिता सहिता श्रीतेजःपालेन पत्न्याऽभूत् ।।53।। इयमनुपमदेवी दिव्यवृत्तप्रसून-व्रतति रजनि तेजःपालमन्त्रीशपत्नी । नयविनयविवेकौचित्यदाक्षिण्यदान प्रमुखगुणगणेन्दुद्योतिताशेषगोत्रा ।।54॥ लावण्यसिंहस्तनयस्तयोरयं रयं जयन्निन्द्रियदुष्टवाजिनाम् लब्ध्वापि मीनध्वजमंगलं वयः प्रयाति धर्मेकविधायिनाऽध्वना ।।55।। श्रीतेजःपालतनयस्य गुणानमुष्य श्रीलूणसिंहकृतिनः कति न स्तुवन्ति । श्रीबन्धनोधुरतरैरपि यः समन्ता दुद्दामता त्रिजगति क्रियते स्म कीर्तेः ।।56।। गुणधननिधानकलशः प्रकटोऽयमवेष्टितश्च खलसर्पः । उपचयमयते सततं सुजनैरुपजीव्यमानोऽपि ।।57।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001596
Book TitleJain Inscriptions of Rajasthan
Original Sutra AuthorN/A
AuthorRamvallabh Somani
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1982
Total Pages350
LanguageEnglish
ClassificationBook_English, Art, & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy