________________
भल्लदेवसचिवस्य नन्दनः पूर्णसिंह इति लीलुकासुतः ।
तस्य नन्दति सुतोयमलगा देवी ( वो) भूः सुकृतवेश्म पेथड : 11581 ! प्रभूदनुपमा पत्नी तेजःपालस्य मन्त्रिणः । लावण्य सिंहनामायमायुष्मानेतयोः सुतः ||59 || तेजः पालेन पुण्यार्थं तयोः पुत्रकलत्रयोः । हम् श्रीनेमिनाथस्य तेने तेनेदमर्बुदे ||60|
तेजःपाल इति क्षितीन्दुसचिवः शंखोज्ज्वलाभिः शिलाश्रेणीभिः स्फुरदिन्दुकुन्दरुचिरं नेमिप्रभोर्मन्दिरम् । उच्चैर्मण्डपमग्रतो जिनवरावासाद्विपञ्चाशतं तत्पार्श्वेषु बलानकं च पुरतो निष्पादयामासिवान् ||61|| श्रीमच्चण्डपसम्भवः समभवच्चण्डप्रसादस्ततः सोमस्तत्प्रभवोऽश्वराज इति तत्पुत्राः पवित्राशयाः । श्रीमल्लूरिगग मल्लदेव सचिव श्रीवस्तुपालाह्वयास्तेजःपालसमन्विता जिनमतारामोन्नमन्नीरदाः |16211 श्रीमन्त्रीश्वरवस्तुपालतनयः श्रीजैत्रसिंहाद्वयस्तेजपाल सुतश्च विश्रुतमतिर्लावयसिहाभिधः । एतेषां दशमूर्तयः करिवधूस्कन्धाधिरूढाश्चिरं राजन्ते जिनदर्शनार्थमयतां दिग्नायकानामिव 1163 || मूर्तीनामिह पृष्ठतः करिवधू पृष्ठप्रतिष्ठाजुषां तन्मूर्तीविमलाश्मखत्तकगताः कान्तासमेता दश । चौलुक्यक्षितिपाल- वीरधवलस्याद्वैतबन्धुः सुधीस्तेजःपाल इति व्यधापयदयं श्रीवस्तुपालानुजः ॥64।। तेजःपालः सकलप्रजोपजीव्यस्य वस्तुपालस्य सविधे विभाति सफलः सरोवरस्येव सहकारः 1165 || तेन भ्रातृयुगेन या प्रतिपुरग्रामाध्वशैलस्थलं वापीकूपनिपान काननसरः प्रासादसत्रादिका । धर्म्मस्थानपरम्परा नवतरा चक्रेऽथ जीर्णोद्धृता तत्संख्यापि न बुध्यते यदि परं तद्वेदिनी मेदिनी ॥16611
शम्भो श्वासगतागतानि गरणयेद् यः सन्मतिर्योऽथवा नेत्रोन्मीलनमीलनानि कलयेन्मार्कण्डनाम्नो मुनेः ।
Jain Education International
For Private & Personal Use Only
21
www.jainelibrary.org