________________
चौलुक्यः सुकृती स वीरधवलः कर्णेजपानां जपं यः कणेऽपि चकार न प्रलयतामुद्दिश्य यो मन्त्रिणौ। आभ्यामभ्युदयाति रेकरुचिरं राज्यं स्वभर्तुः कृतं वाहानां निवहा घटाः करटिनां बद्धाश्च सौधांगणे ।।28।।
तेन मन्त्रिद्वयेनायं जाने जानूपत्तिना। विभुर्भुजद्वयेनेव सुखमाश्लिष्यति श्रियम् ।।29।।
इतश्च । गौरीवरश्वसुरभूधरसम्भवोऽयमस्त्यर्बुदः कुकुदमद्रिकदम्बकस्य । मन्दाकिनी धनजटे दधदुत्तमांगे यः श्यालकः शशिभृतोऽभिनयं करोति ।।30।। क्वचिदिह विहरन्तीर्वीक्षमाणस्य रामाः प्रसरति रतिरन्तर्मोक्षमाकांक्षतोऽपि । क्वचन मुनिभिरर्थ्यां पश्यतस्तीर्थवीथीं
भवति भवविरक्ता धीरधीरात्मनोऽपि ।।31।। श्रयः श्रेष्ठवशिष्ठहोमहुतभुक्कुण्डान्मृतण्डात्मजप्रद्योताधिकदेहदीधितिभरः कोऽप्याविरासीन्नरः । तं मत्वा परमारणकरसिकं स व्याजहार श्रुतेराधारः परमार इत्यजनि तन्नामाऽथ तस्यान्वयः ॥32।। श्रीधूमराजः प्रथमं बभूव भूवासवस्तत्र नरेन्द्रवंशे । भूमी (मि) भृतो यः कृतवानभिज्ञान् पक्षद्वयोच्छेदनवेदनासु ।।33।। धन्धुकध्र वभटादयस्तत-स्ते रिपुद्विपघटाजितोऽभवन् । यत्कुलेऽजनि पुमान्मनोरमो रामदेव इति कामदेवजित् ।।34।।
रोदः कन्दरवत्तिकीर्तिलहरीलिप्तामृतांशुद्युतेरप्रद्युम्नवशो यशोधवल इत्यासीत्तनूजस्ततः । यश्चौलुक्यकुमारपालनृपतिप्रत्यथितामागतं
मत्वा सत्वरमेव मालवपतिं बल्लालमालब्धवान् ॥35।। शत्रुश्रेणीगलविदलनोनिद्रनिस्त्रिशधारो धारावर्षः समजनि सुतस्तस्य विश्वप्रशस्यः । क्रोधाक्रान्तप्रधनवसुधानिश्चले यत्र जाताश्च्योतन्नेत्रोत्पलजलकणा: कौंकणाधीशपत्न्यः ॥36।।
18
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org