Book Title: Jain Inscriptions of Rajasthan
Author(s): Ramvallabh Somani
Publisher: Rajasthan Prakrit Bharti Sansthan Jaipur

View full book text
Previous | Next

Page 312
________________ समदमदना लीलालापाः पनाकुलाः कुवलयदृशां संदृश्यन्ते दृशस्तरलाः परम् । मलिनितमुखा यत्रोद्वत्ताः परं कठिनाः कुचाः निविडरचना नी [वौ] बन्धाः परं कुटिलाः कुचाः ।।25।। गाढोत्तुङ्गानि सार्द्ध शुचिकुचकलशैः कामिनीनां मनौ - विस्तीर्णानि प्रकामं सह धनजघनैर्देवतामन्दिरारिण। भ्राजन्तेऽदभ्रशुभ्रा[ण्य]तिशयसुभगं नेत्रपात्रैः पवित्रैः सत्रं चित्राणि धात्रीजनहृतहृदयविभ्रमैर्यत्र सत्रम् ।।26।। मधुरा धनपरिणो हृद्यरूपा रसाधिकाः । यत्रेक्षुवाटा लोकेभ्यो नालिकत्वाद्भिदेलिमाः ।।27।। अस्यां सूरिः सुराणां गुरुरिव गु[रु] भिगौरवा) गुणोघेभूपालानां त्रिलोकीवलयविलसितानन्तरानन्तकीर्तिः । नाम्ना श्रीशान्तिभद्रोऽभवदभिभवितु भास [मा] नासमाना कामं कामं समर्था) जनितजनमनः सम्मदा यस्य मूर्तिः ।।28।। मन्येऽमुना मुनीन्द्रेण [म] नोभूरूपनिजितः । स्वप्नेऽपि न स्वरूपेण समगंस्तातिलज्जितः ।।29।। प्रोद्यत्पद्माकरस्य प्रकटितविकटाशेषहा (भा) वस्य सूरेः सूर्यस्येवामृतांशु स्फुरितशुभरुचि वासुदेवाभिधस्य । अध्यासीनं पदव्यां यममलविलसज्ज्ञानमालोक्य लोको लोकालोकावलोकं सकलमचकलत्केवलं सम्भवीति ।।30।। धर्माभ्यासरतस्यास्य संगतो गुणसंग्रहः । अभग्नमार्गणेच्छस्य चित्रं निर्वाणवाच्छ (छ)ता (ना) ॥31॥ कमपि सर्वगुणानुगतं जनं विधिरियं विदधाति न दुर्विधः । इति कलङ्कनिराकृतये कृती यमकृत कृताखिलसद्गुणम् ।।32।। तदीयवचनानि धनकलत्रपुत्रादिकं विलोक्य सकलं चलं दलमिवानिलान्दो [लि]तम् । गरिष्ठगुणगोष्ठ्यदः समुद्रदीधरद्धीरधी रुदारमतिसुन्दरं प्रथमतीर्थकृन्मन्दिरम् ।।33।। [रक्तं] वा रम्यमाणां मणितारावराजितम् । इदं मुखमिवाभाति भासमान वरालकम् ।।34। चतुरस्र [पट्टज ? ]नघा[ड्ड] निकं शुभशुक्तिकरोटकयुक्तमिदम् । ३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350