________________
समदमदना लीलालापाः पनाकुलाः कुवलयदृशां संदृश्यन्ते दृशस्तरलाः परम् । मलिनितमुखा यत्रोद्वत्ताः परं कठिनाः कुचाः निविडरचना नी [वौ] बन्धाः परं कुटिलाः कुचाः ।।25।। गाढोत्तुङ्गानि सार्द्ध शुचिकुचकलशैः कामिनीनां मनौ - विस्तीर्णानि प्रकामं सह धनजघनैर्देवतामन्दिरारिण। भ्राजन्तेऽदभ्रशुभ्रा[ण्य]तिशयसुभगं नेत्रपात्रैः पवित्रैः सत्रं चित्राणि धात्रीजनहृतहृदयविभ्रमैर्यत्र सत्रम् ।।26।। मधुरा धनपरिणो हृद्यरूपा रसाधिकाः । यत्रेक्षुवाटा लोकेभ्यो नालिकत्वाद्भिदेलिमाः ।।27।। अस्यां सूरिः सुराणां गुरुरिव गु[रु] भिगौरवा) गुणोघेभूपालानां त्रिलोकीवलयविलसितानन्तरानन्तकीर्तिः । नाम्ना श्रीशान्तिभद्रोऽभवदभिभवितु भास [मा] नासमाना कामं कामं समर्था) जनितजनमनः सम्मदा यस्य मूर्तिः ।।28।। मन्येऽमुना मुनीन्द्रेण [म] नोभूरूपनिजितः । स्वप्नेऽपि न स्वरूपेण समगंस्तातिलज्जितः ।।29।। प्रोद्यत्पद्माकरस्य प्रकटितविकटाशेषहा (भा) वस्य सूरेः सूर्यस्येवामृतांशु स्फुरितशुभरुचि वासुदेवाभिधस्य । अध्यासीनं पदव्यां यममलविलसज्ज्ञानमालोक्य लोको लोकालोकावलोकं सकलमचकलत्केवलं सम्भवीति ।।30।। धर्माभ्यासरतस्यास्य संगतो गुणसंग्रहः । अभग्नमार्गणेच्छस्य चित्रं निर्वाणवाच्छ (छ)ता (ना) ॥31॥ कमपि सर्वगुणानुगतं जनं विधिरियं विदधाति न दुर्विधः । इति कलङ्कनिराकृतये कृती यमकृत कृताखिलसद्गुणम् ।।32।। तदीयवचनानि धनकलत्रपुत्रादिकं
विलोक्य सकलं चलं दलमिवानिलान्दो [लि]तम् । गरिष्ठगुणगोष्ठ्यदः समुद्रदीधरद्धीरधी
रुदारमतिसुन्दरं प्रथमतीर्थकृन्मन्दिरम् ।।33।। [रक्तं] वा रम्यमाणां मणितारावराजितम् । इदं मुखमिवाभाति भासमान वरालकम् ।।34। चतुरस्र [पट्टज ? ]नघा[ड्ड] निकं शुभशुक्तिकरोटकयुक्तमिदम् ।
३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org