________________
धनुर्द्धरशिरोमणेरमलधर्ममभ्यस्यतो
जगाम जलधेर्गुणो (गु)रुरमुष्य पारम्परम् । समीयुरपि सम्मुखाः सुमुखमार्गणानां गणाः
सतां चरितमद्भुतं सकलमेव लोकोत्तरम् ।।15।। यात्रासु यस्य वियदौर्णविषुविशेषाद्
वल्गत्तुरंगखुरखातमहीरजांसि । तेजोभिरुज्जितमनेन विनिज्जितत्वाद्
भास्वान् विलज्जित इवातितरां तिरोऽभूत् ।।16।। न कामनां मनो धीमान् ध .... लनां दधौ । अनन्योद्धार्यसत्कार्यभारधुर्योऽर्थतोऽपि
यः ॥17।। यस्तेजोभिरहस्करः करुणया शौद्धौदनिः शुद्धया
भीष्मो वञ्चनवञ्चितेन वचसा धर्मण धर्मात्मजः । प्राणेन प्रलयानिलो बलभिदो मन्त्रेण मन्त्री परो
रूपेण प्रमदाप्रियेण मदनो दानेन क [पो]ऽभवत् ।।18।। सुनयतनयं राज्ये बालप्रसादमतिष्ठिपत्
परिणतवया निःसंगो यो बभूव सुधीः स्वयम् । कृतयुगकृतं कृत्वा कृत्यं कृतात्मचमु(म)त्कृती
रकृत सुकृती नो कालुष्यं करोति कलिः सताम् ।।19।। काले कलावपि किलामलमेतदीयं
__ लोका विलोक्य कलनातिगतं गुणौघम् । [पार्था] दिपार्थिव [गुणान् गणयन्तु सत्या
नेकं व्यधाद् गुणनिधिं यमितीव वेधाः ।।20।। गोचरयन्ति न वाचो यच्चरितं चन्द्रचन्द्रिकारुचिरम् । वाचस्पतेर्वचस्वी को वान्यो वर्णयेत्पूर्णम् ॥21।। राजधानी भुवा भर्तुस्तस्यास्ते हस्तिकुण्डिका। अलका धनदस्येव धनाढ्यजनसेविता ।।22।। नीहारहारहरहास [हिमां] शुहारि[झा]त्का [र] वारि] [भु ? ]वि राजविनिझराणाम् । वास्तव्य भव्यजनचित्तसमं [स] मन्तात्
सन्तापसम्पदपहारपरं परेषाम् ।।23।। धौतकलधौतकलशाभिरामरामास्तना इव न यस्याम् । सन्त्यपरेऽप्यपहाराः सदा सदाचारजनतायाम् ।।24।।
32
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org