Book Title: Jain Inscriptions of Rajasthan
Author(s): Ramvallabh Somani
Publisher: Rajasthan Prakrit Bharti Sansthan Jaipur

View full book text
Previous | Next

Page 318
________________ रागाय सर्वज्ञाय महात्मने ॥1॥ विज्ञानदूतेन निवेदिताया मुक्त्यंगनाया विरहादिवात्र । रात्रिदिवं यो विगतप्रमी( 2 ) लो विघ्नाय नोदं स तनोतु पार्श्वः ।।2।। समस्ति शस्तं परम द्धिपात्रं परं पुरं जेसलमेरुनाम । यदाह सर्वस्वमिव क्षमायाः कुलांगनाया इव सौव कान्तं ।।3। तत्राभूवन्नखण्डा यदुकुल(3) कमलोल्लासमार्तण्डचण्डा - दोर्दण्डाक्रान्तचण्डाहितनरपतयः पुष्कला भूमिपालाः । येषामद्यापि लोकैः श्रुतिततिपुटकैः पीयते श्लोकयूषस्तत्पूर्ण विश्वभाण्डं कुतुकमिह यतो जा(4) यते नैव रिक्तम् ।।4।। तत्र क्रमादभवदुग्रसमग्रतेजाः श्रीजैत्रसिंह नरराज इति प्रतीतः । चिच्छेद शात्रवनपानसिनाञ्जसा यो वज्रण शैलनिवहानिव वज्रपाणिः ।।5।। यस्य प्रशस्यौ तन(5) यावभूतां श्रीमूलदेवोऽथ च रत्नसिंहः । न्यायेन भुक्तः स्म तथा भुवं यौ यथा पुरा लक्ष्मण-रामदेवौ ।।6।। श्रीरत्नसिंहस्य मही धवस्य बभूव पुत्रो घटसिंहनामा । यः (6) सिंहवन म्लेच्छगजान् विदार्य बलादलाद्वप्रदरीमरिभ्यः ।।7।। सुनन्दनत्वाद्विबुधैर्नु तत्वाद् गोरक्षाणाच् श्रीदसमाश्रितत्वात् । श्रीमूलराजक्षितिपालसूनुर्यथार्थ(7) नामाजनि देवराजः ॥8।। तदङ्गजो निर्भयचित्तवृत्तिः परैर धृष्यप्रगुणानुवृत्तिः। पराक्रमाक्रान्तपरद्विपेन्द्रः श्रीकेहरिः केश रिणा समोऽभूत् ।।9।। यस्यास्ति सूनुः (8) स्वगुणैरनूनः श्रीलक्ष्मणाख्यः क्षितिपालमुख्यः । राज्ञोपि यस्याति विसारि तेजश्चित्रं न्यका/द्रविबिम्बलक्ष्मीम् ।।10।। शत्रुघ्नबन्धुरिह सन्नपि लक्ष्मणोपि रा(9) माभिधान जिनभक्तिपरायणोपि । एतत् कुतूहलमही मनसाप्य सौ यन्नापीडयन्निविडपुण्यजनान कदाचित् ॥11॥ यथा सुमित्रामितनन्ददायी न दीनबन्धे निरतोव(10) तीर्ण: । पुनः प्रजां पालयितु किलायं श्रीलक्ष्मणो लक्ष्मणदेव एव ॥12॥ यद्गुणैगुम्फिता भाति नवीनेयं यशःपटी । व्याप्नोत्येकापि यद्विश्व न मालिन्यं कदाप्य 39 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350