________________
रागाय सर्वज्ञाय महात्मने ॥1॥ विज्ञानदूतेन निवेदिताया
मुक्त्यंगनाया विरहादिवात्र । रात्रिदिवं यो विगतप्रमी( 2 ) लो विघ्नाय नोदं स तनोतु पार्श्वः ।।2।। समस्ति शस्तं परम
द्धिपात्रं परं पुरं जेसलमेरुनाम । यदाह सर्वस्वमिव क्षमायाः
कुलांगनाया इव सौव कान्तं ।।3। तत्राभूवन्नखण्डा यदुकुल(3) कमलोल्लासमार्तण्डचण्डा - दोर्दण्डाक्रान्तचण्डाहितनरपतयः
पुष्कला भूमिपालाः । येषामद्यापि लोकैः श्रुतिततिपुटकैः पीयते
श्लोकयूषस्तत्पूर्ण विश्वभाण्डं कुतुकमिह यतो जा(4) यते नैव रिक्तम् ।।4।। तत्र क्रमादभवदुग्रसमग्रतेजाः श्रीजैत्रसिंह
नरराज इति प्रतीतः । चिच्छेद शात्रवनपानसिनाञ्जसा यो
वज्रण शैलनिवहानिव वज्रपाणिः ।।5।। यस्य प्रशस्यौ तन(5) यावभूतां श्रीमूलदेवोऽथ च रत्नसिंहः । न्यायेन भुक्तः स्म तथा
भुवं यौ यथा पुरा लक्ष्मण-रामदेवौ ।।6।। श्रीरत्नसिंहस्य मही
धवस्य बभूव पुत्रो घटसिंहनामा । यः (6) सिंहवन म्लेच्छगजान् विदार्य बलादलाद्वप्रदरीमरिभ्यः ।।7।।
सुनन्दनत्वाद्विबुधैर्नु तत्वाद् गोरक्षाणाच् श्रीदसमाश्रितत्वात् ।
श्रीमूलराजक्षितिपालसूनुर्यथार्थ(7) नामाजनि देवराजः ॥8।। तदङ्गजो निर्भयचित्तवृत्तिः परैर
धृष्यप्रगुणानुवृत्तिः। पराक्रमाक्रान्तपरद्विपेन्द्रः श्रीकेहरिः केश
रिणा समोऽभूत् ।।9।। यस्यास्ति सूनुः (8) स्वगुणैरनूनः श्रीलक्ष्मणाख्यः क्षितिपालमुख्यः । राज्ञोपि
यस्याति विसारि तेजश्चित्रं न्यका/द्रविबिम्बलक्ष्मीम् ।।10।।
शत्रुघ्नबन्धुरिह सन्नपि लक्ष्मणोपि रा(9) माभिधान जिनभक्तिपरायणोपि । एतत् कुतूहलमही मनसाप्य
सौ यन्नापीडयन्निविडपुण्यजनान कदाचित् ॥11॥ यथा
सुमित्रामितनन्ददायी न दीनबन्धे निरतोव(10) तीर्ण: । पुनः प्रजां पालयितु किलायं श्रीलक्ष्मणो लक्ष्मणदेव
एव ॥12॥ यद्गुणैगुम्फिता भाति नवीनेयं यशःपटी । व्याप्नोत्येकापि यद्विश्व न मालिन्यं कदाप्य
39
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org