Book Title: Jain Inscriptions of Rajasthan
Author(s): Ramvallabh Somani
Publisher: Rajasthan Prakrit Bharti Sansthan Jaipur

View full book text
Previous | Next

Page 311
________________ धनुर्द्धरशिरोमणेरमलधर्ममभ्यस्यतो जगाम जलधेर्गुणो (गु)रुरमुष्य पारम्परम् । समीयुरपि सम्मुखाः सुमुखमार्गणानां गणाः सतां चरितमद्भुतं सकलमेव लोकोत्तरम् ।।15।। यात्रासु यस्य वियदौर्णविषुविशेषाद् वल्गत्तुरंगखुरखातमहीरजांसि । तेजोभिरुज्जितमनेन विनिज्जितत्वाद् भास्वान् विलज्जित इवातितरां तिरोऽभूत् ।।16।। न कामनां मनो धीमान् ध .... लनां दधौ । अनन्योद्धार्यसत्कार्यभारधुर्योऽर्थतोऽपि यः ॥17।। यस्तेजोभिरहस्करः करुणया शौद्धौदनिः शुद्धया भीष्मो वञ्चनवञ्चितेन वचसा धर्मण धर्मात्मजः । प्राणेन प्रलयानिलो बलभिदो मन्त्रेण मन्त्री परो रूपेण प्रमदाप्रियेण मदनो दानेन क [पो]ऽभवत् ।।18।। सुनयतनयं राज्ये बालप्रसादमतिष्ठिपत् परिणतवया निःसंगो यो बभूव सुधीः स्वयम् । कृतयुगकृतं कृत्वा कृत्यं कृतात्मचमु(म)त्कृती रकृत सुकृती नो कालुष्यं करोति कलिः सताम् ।।19।। काले कलावपि किलामलमेतदीयं __ लोका विलोक्य कलनातिगतं गुणौघम् । [पार्था] दिपार्थिव [गुणान् गणयन्तु सत्या नेकं व्यधाद् गुणनिधिं यमितीव वेधाः ।।20।। गोचरयन्ति न वाचो यच्चरितं चन्द्रचन्द्रिकारुचिरम् । वाचस्पतेर्वचस्वी को वान्यो वर्णयेत्पूर्णम् ॥21।। राजधानी भुवा भर्तुस्तस्यास्ते हस्तिकुण्डिका। अलका धनदस्येव धनाढ्यजनसेविता ।।22।। नीहारहारहरहास [हिमां] शुहारि[झा]त्का [र] वारि] [भु ? ]वि राजविनिझराणाम् । वास्तव्य भव्यजनचित्तसमं [स] मन्तात् सन्तापसम्पदपहारपरं परेषाम् ।।23।। धौतकलधौतकलशाभिरामरामास्तना इव न यस्याम् । सन्त्यपरेऽप्यपहाराः सदा सदाचारजनतायाम् ।।24।। 32 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350