________________
( ६८ )
दूषयिष्यामीति बुद्धया पर्यनुयोग सोमिलभट्टेन कृत, द्वौ भवानिति च द्वित्वाभ्युपगमेऽहमित्येकत्वविशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्व दूषयिष्यामीति बुद्धया पर्यनुयोगो विहित, 'अक्खए भव' मित्यादिना व पदत्रयेण नित्यात्मपक्षः पर्यनुयुक्तः, 'प्रणेग भूय- भावभविए भव' ति प्रनेके भूता. - श्रतीता भावा-सत्तापरिणामा भव्याश्च भाविनो यस्य स तथा, अनेन चातीत-भविष्यत्सत्ताप्रश्नेनानित्यतापक्ष पर्यनुयुक्त, एकतरपरिहं तस्यैव दूषणायेति, तत्र च भगवता स्याद्वादस्य निखिलदोषगोचराति-क्रान्तत्वात्तमवलम्ब्योत्तरमदायि- एगे विग्रह' मित्यादि, कथमित्येतत् ? इत्यत आह- दव्वट्ट्याए एगोऽह, ति जीवद्रव्यस्यैकत्वेनैकोऽह न तु प्रदशार्थतया, तथाहि अनेकत्वान्ममेत्यवयवादीनामनेकत्वोपलम्भो न बाधक, तथा कञ्चित्स्वभावमाश्रित्यैकत्व सख्या विशिष्टस्यापि पदार्थस्य स्वभावान्तरद्वयापेक्षया दित्वमपि न विरुद्ध मित्यत उक्त'नाणदा दुवे व ग्रह' ति, न चैकस्य स्वभावभेदो न दृश्यते, एको हि देवदत्तादि पुरुष एकदैव तत्तदपेक्षया पितृत्व-पुत्रत्व भ्रातृत्वादीननेकान् स्वभावान् लभत इति, तथा प्रदेशार्थं तयाऽसखेय प्रदेशतामाश्रित्याक्षतो यह सर्वथा प्रदेशांना क्षयाभावात्, थाव्ययोऽप्यह कतिपयानामपि च व्ययाभावात् किमुक्त भगति ? – अवस्थिताप्यहनित्योऽप्यहम् प्रसख्येयप्रदेशिता हि न कदाचनापि व्यपैति श्रतो नित्यताऽभ्युपगमेsपि न दोष, तथा 'उवओोगट्टयाए त्ति विविधविषयानुपयोगानाश्रित्यानेकभूतभाव-भविकोऽप्यहम् अतीताना
कथञ्चिदभिन्नाना
तोह
कालयोरनेक-विषय-बोधानामात्मनः
भूतत्वात् भावित्वाच्चेत्य नित्यपक्षोऽपि न दोषायेति ।
हिन्दी - भावार्थ
भगवतीसूत्र मे सोमिल ब्राह्मण और भगवान महावीर के सवाद का वर्णन आता है । आगे का वर्णन उसी सवाद का