Book Title: Jain Agamo me Parmatmavada
Author(s): Atmaramji Maharaj
Publisher: Atmaram Jain Prakashan Samiti
View full book text
________________
( ९४) ग्रहेणोत्पादसम्भवात्, ततश्छद्मस्थानाहारकस्य जघन्यत्र उत्कर्षतश्चेतावदन्तरमिति । अथ स्थाने २ क्षुल्लकभवग्रहणमित्युक्त तत्र क्षुल्लकभवग्रहणमिति क शब्दार्थ ?, उच्यते, क्षुल्ल लघुस्तोकमित्येकोऽर्थ , क्षुल्लमेव क्षुल्लकम्-एकायुष्कसवेदन कालो भवस्तस्य ग्रहण-सबन्धन भवग्रहण, क्षुल्लक च तद् भवग्रहण च क्षुल्लकभवग्रहण, तच्चावलिकातश्चिन्त्यमान षट्पञ्चाशदधिकमावलिकाशतद्वयम्, अथकस्मिन् प्रानप्राणे कियन्ति क्षुल्लक भवग्रहणानि भवन्ति ? उच्यते-किञ्चित्समधिकानि सप्तदश । कथमिति चेदुच्यते-इह मुहर्तमध्ये सर्वसङ्खयेया पञ्चपष्टि सहस्राणि पञ्चशतानि षट्त्रिशानि क्षुल्लकभवग्रहणाना भवन्ति, यत उक्त चूणौ -
पन्नट्ठिसहस्साइ पचेव सया हवति छत्तीसा ।
खुड्डागभवग्गहणा हवति अतोमुत्तमि ॥१॥ पानप्राणाश्च मुहूर्त त्रीणि सहस्राणि सप्तशतानि त्रिसप्तत्यधिकानि, उक्तञ्च- तिन्नि सहस्सा सत्त य सयाइ तेवत्तरि च ऊसासा।
एस मुहुत्तो भणियो सव्वेहि अणतनाणोहि ॥१॥ ततोऽत्र त्रैराशिकर्मावतार यदि त्रिसप्तत्यधिकसप्तशतोत्तरैस्त्रिभि सहस्र रुच्छ्वासाना पञ्चषष्टि सहस्राणि पञ्चशतानि दिशानि क्षुल्लकभवग्रहणाना भवन्ति तत एकेनोच्छ्वासेन किं लभामहे? राशित्रयस्थापना३७७३।६५५३६।१॥ अत्रान्त्यराशिना एककलक्षणेन मध्यराशेर्गुणनाज्जात स तावानेव, ‘एकेन गुणित तदेव भवतीति न्यायात्, तत आद्येन राशिना भागहरण, लब्धा. सप्तदश क्षुल्लकभवा शेषास्त्वशास्तिष्ठन्ति, तत्र त्रयोदश शतानि पञ्चनवत्यधिकानि, उक्तत्व
सत्तरस भवग्गहणा खुड्डाण भवति आणुपाणमि। तेरस चेव सयाइ पचाणइ चेव असाण ॥१॥ अर्थतावद्भिरशे कियत्य प्राबलिका लभ्यन्ते ? उच्यते, समधिकचतुर्नवति । तथाहि-षट्पञ्चाशदधिकेन शतद्वयेनावलिकाना त्रयोदश शतानि पञ्चनव तानि गुण्यन्ते, जातानि त्रीणि लक्षाणि सप्तपञ्चाशत्सहस्राणि शतमेक विंशत्यधिक ३५७१२०, छेदराशि: स

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125