Book Title: Jain Agamo me Parmatmavada
Author(s): Atmaramji Maharaj
Publisher: Atmaram Jain Prakashan Samiti
View full book text
________________
एव ३७७३, लब्धा चतुर्नवतिरावलिका. शेषास्त्वशा अवलिकायास्तिष्ठन्ति चतुर्विंशति शतानि अष्टपञ्चाशानि, छेद स एव २४५८/३७७३, एव यदा एकस्मिन्नानप्राणे प्रावलिका सङ्खयातुमिश्यन्ते तदा सप्तदश द्वाभ्या षट्पञ्चाशदधिकाभ्या शताभ्या गुण्यन्ते, गुणयित्वा चोपरितनाश्चतुर्नवतिरावलिका प्रक्षिप्यन्ते, तत पावलिकाना चतुश्चत्वारिंशत् शतानि-षट् चत्वारिशानि भवन्ति, उक्तञ्च
एक्को उ आणुपाणू, चोयालीस सया उ छायाला । आलियपमाणेण अणतनाणीहि निद्दिट्टो ॥१॥
यदि पुनर्महर्ते प्रावलिका सङ्ख्यातुमिप्यन्ते तत एतान्येव चतुश्चत्वारिशच्छतानि त्रिसप्तत्यधिकानि भवन्तीति सप्तत्रिच्छशतैस्त्रिसप्तत्यधिकंर्गुण्यन्ते, जाता एका कोटी सप्तषष्टिः शतसहस्राणि चतु सप्तति सहस्राणि सप्तशतानि अष्टापञ्चाशदधिकानि १६७७४७५८, येऽपि चावलिकाया अशाश्चतुर्विंशतिशतानि अष्टपञ्चाशदधिकानि २४५८ तेऽपि मुहूर्तगतोच्छ वासराशिना ३७७३ गुण्यन्ते, प्रस्यैव छेदस्य ते अशा इत्यावलिकानयनाथं तेनैव भागो ह्रियते, लब्धास्तावत्य एवावलिकाश्चतुर्विशतिशतान्यष्टापञ्चाशानि २४५८, तानि मूलराशौ प्रक्षिप्यन्ते, जाता मूलराशिरेका कोटि सप्त्रषष्टिलक्षा. सप्तसप्तति सहस्राणि द्वे शते षोडशोत्तरे, एतावत्य प्रावलिका मुहूर्ते भवन्ति, यदि वा मुहूर्तगताना क्षुल्लकभवग्रहणाना पञ्चषष्टि-सहस्राणि पञ्चशतानि ट्विशानि एक्भवग्रहणप्रमाणेन षट्पञ्चाशेन शतद्व येनावलिकाना गुण्यन्ते तथाऽपि तावत्य एवावलिका भवन्ति, उक्तञ्च
“एगा कोडी सत्तट्टि लक्ख सत्तत्तरी सहस्सा य । दा य सया सोलहिया आवलियाप्रो मुहुत्तमि ॥१॥
एव च यदुच्यते 'सखेज्जाओ आवलियाओ एगे ऊसासनीसासे' इत्यादि तदतीव समीचीनमिति कृत प्रसड गेन, प्रकृत प्रस्तुमः। तत्र सयोगिभवस्थकेवल्यनाहारकस्यान्तरमभिधित्सुराह–'सजोगिभवत्थकेवलिनणाहारयस्स ण भते!' इत्यादि प्रश्नसूत्र सुगमम्, भगवानाह

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125