Book Title: Jai Viyaray
Author(s): Vijayhemchandrasuri
Publisher: Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
२४४
જય વીયરાય
बहुजनविरुद्धसंगो देसादाचारस्सलंघणं चेव । उव्वणभोओ अ तहा दाणाइवियडऽमन्ने उ ।।२।। साहुवसणम्मि तोसो सइ सामत्थम्मि अपडियारो अ । एमाइयाइं इत्थं लोगविरुद्धाइं णेयाई ||३||
गुरुजनस्य पूजा उचितप्रतिपत्तिर्गुरुपूजा, गुरुवरश्च यद्यपि धर्माचार्य्या एवोच्यन्ते तथापीह मातापित्रादयोऽपि गृह्यन्ते । यदुक्तम्
-
माता पिता कलाचाय्य, एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः ।।१।। परार्थकरणं सत्त्वार्थकरणं जीवलोकसारं पौरुषचिह्नमेतत् । सत्येतावति लौकिके सौन्दर्ये लोकोत्तरधर्माधिकारी भवतीत्याहशुभगुरुयोगो विशिष्टचारित्रयुक्ताचार्यसम्बन्धः, तथा तद्वचनसेवा सद्गुरुवचनसेवना, न जातुचिदयमहितमुपदिशति, आभवमासंसारमखण्डा सम्पूर्णा ।
इदं च प्रणिधानं न निदानरूपम्, प्रायेण निस्सङ्गाभिलाषरूपत्वात् । एतच्चाप्रमत्तसंयतादर्वाक् कर्तव्यम्, अप्रमत्तादीनां मोक्षेऽप्यनभिलाषात् । तदेवंविधशुभफलप्रणिधानपर्यन्तं चैत्यवन्दनम् ।।-।।

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294