Book Title: Jai Viyaray
Author(s): Vijayhemchandrasuri
Publisher: Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
પરિશિષ્ટ - ૩ : ચૈત્યવંદન અંગે વિશિષ્ટ વાતો ૨૭૩ ઉગ્ર સૌભાગ્યાદિ ગુણો શરીરમાં વિકાસ પામે છે.
આ ઘોર સંસાર સાગર ખાબોચીયા જેવો સુખેથી ઉતરી શકાય તેવો થાય છે અને સિદ્ધિ સુખ અભિમુખ थाय छे... ચૈત્યવંદનમાં નમુત્થણ વગેરે સૂત્રો કેવી રીતે બોલવા?
इह प्रणिपातदण्डकपूर्वकं चैत्यवंदनम् तत्र चायं विधिः
इह साधुः श्रावको वा, चैत्यगृहादावेकान्तप्रयतः, परित्यक्तान्यकर्तव्यः प्रदीर्घतरतद्भावगमनेन, यथासम्भवं भुवनगुरोः सम्पादितपूजोपचारः, ततः सकलसत्त्वानपायिनी भुवं निरीक्ष्य, परमगुरुप्रणीतेन विधिना प्रमृज्य च, क्षितिनिहतजानुकरतलः, प्रवर्द्धमानातितीव्रशुभपरिणामो, भक्त्यतिशयात् मुदश्रुपरिपूर्णलोचनो, रोमाञ्चाञ्चितवपुः, मिथ्यात्वजलनिलयानेककुग्राहनक्रचक्राकुले भवाब्धावनित्यत्वाच्चायुषोऽतिदुर्लभमिदं सकलकल्याणैककारणं चाधाकृतचिन्तामणिकल्पद्रुमोपमं भगवत्पादवन्दनं कथञ्चिदवाप्तम्, न चातः परं कृत्यमस्तीति अनेनात्मानं कृतार्थमभिमन्यमानो भुवनगुरौ विनिवेशितनयनमानसोऽतिचारभीरुतया सम्यगस्खलितादिगुणसम्पदुपेतं, तदर्थानुस्मरणगर्भमेव, प्रणिपातदण्डकसूत्रं पठति, तच्चेदं नमोत्थुणं अरहंताणमित्यादि ।

Page Navigation
1 ... 288 289 290 291 292 293 294