________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[१. १६. ६ ]
गृह्यसूत्रे ।
अष्टमे वर्षे ब्राह्मणमुपनयेत् ॥ १ ॥
जन्मप्रभृत्यष्टमे वर्षे ब्राह्मणमुपनयेत् । कुमारमिति वर्तते.
कुमारोनिवृत्त्यर्थमित्युक्रम् ॥ १ ॥
गर्भीष्टमे वा ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गर्भप्रभृत्यष्टमे वोपनयेत् ॥ २ ॥
८१
एकादशे क्षत्रियम् ॥ ३॥
जन्मप्रभृति गर्भप्रभृति वा एकादशे वर्षे क्षत्रियमुपनयेत् ॥ ३ ॥
द्वादशे वैश्यम् ॥ ४ ॥
जन्मप्रभृति गर्भप्रम्भृति वा द्वादशे वर्षे वैश्यमुपनयेत् ॥ ४ ॥ आषोडशात् ब्राह्मणस्यानतीतः कालः ॥ ५ ॥
षोडशवर्षपर्यन्तं ब्राह्मणस्योपनयनकालोऽतीतो न भवति ॥ ॥ ५ ॥
आद्दाविंशात् क्षचियस्य. आचतुर्विंशात् वैश्यस्य. अत ऊर्ध्वं पतितसाविचीका भवन्ति ॥ ६ ॥
षोडशद्वाविंश चतुर्विंशपर्यन्तेषु श्रनुपनीताश्चेत् पतितसावित्रीका: भवन्ति । मञ्ज्ञायाः प्रयोजनं पतितसावित्रीक उद्दालकत्रतं चरे
M
For Private and Personal Use Only