Book Title: Gruhya Sutrani
Author(s): Ramnarayan Vidyaratna, Anandchandra Vedant
Publisher: Calcutta Rajdhani
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९७
[४. १७]
-रह्य परिशि,। प्रविशति सरटो मूर्ध्नि निपतति चुल्लीनिपतति प्रज्वलन्दीपः पतति सी वा द्वारे निष्कामतीत्येवमादीनि तान्येतानि सवाणि वैश्रवणदेवत्यान्यङ्गतानि प्रायश्चित्तानि भवन्ति अभित्यं देवं सवितारमण्ये.रिति स्थालीपाकमष्टशतं हुवा पञ्चभिराज्याहुतिभिरभिजहाति वैश्रवणाय स्वाहा धनाधिपतये स्वाहा हिरण्यपाण ये स्वाहा ईश्वराय स्वाहा सात्यातशमनाय स्वाहेति महाव्याहृतिभिश्च हुत्वा शन्तातीयं जपेत् ॥ १५ ॥
स पृथिवोमन्वावर्त्ततेऽथ यदास्य पृथिवीतटानि स्फुटन्ति कम्पन्ति कूजन्त्यकस्मात् सलिलमुगीलयति अकाले फलपुष्यमभिवर्तत इत्येवमादीनि तान्येतानि सीण्यग्निदेवत्यान्यभूतानि प्रायश्चित्तानि भवन्त्यग्निं दूतं रणीमह इति स्थालीपाकमष्ट शतं हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति अग्नये स्वाहा हविष्यतये स्वाहा अर्चिःपाणये स्वाहा ईश्वराय स्वाहा सवात्यातशमनाय स्वाहेति महाव्याहृतिभिश्च हुत्वा शन्तातीयं जपेत् ॥ १६॥
सोऽन्तरिक्षमन्वावर्ततेथ यदास्य वाताविवाता वायन्ते अनेषु वा रूपाणि दृश्यन्ते खरकरभगजककगृध्रश्येनचापवायसगामायुपांस न्यूपरिपांसन्मांसप्रेक्ष्या
3
For Private and Personal Use Only

Page Navigation
1 ... 434 435 436 437 438 439 440