________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३.८.८]
गृह्यसूत्रे ।
न नक्तं स्नायात् । न नग्नः स्वायात् । न नग्नः शयीत । न नग्नां स्त्रियमीक्षेतान्यत्र मैथुनात् । वर्षति न धावेत् ॥ ६ ॥
द्रुतगमनप्रतिषेधः ॥ ६ ॥
2 B
न वृक्षमारोहेत् । न कूपमवरोहेत् । न बाहुभ्यां नदीन्तरेत् । न संशयमभ्यापद्येत ॥ ७ ॥
१८५
अन्यांश्च प्राणमंशयान्नाभ्यापद्येत । यस्मादित्यं श्रूयत इत्यर्थः । वर्षति न धावेदित्यादिप्रतिषेधोऽस्य प्राणसंशयाभ्यापादनप्रतिषेधत्वज्ञापनार्थः । अर्थसंशयाभ्यापादने न दोषः ॥ ७ ॥
महद्वै भूतं स्नातको भवतीति विज्ञायते ॥ ८ ॥ ॥ ९ ॥
स्नातको हि महद्भूतं इति च श्रूयते । कथं पुनः स्नातकस्य
महत्त्वं ।
उच्यते । देवैश्चापि मनुय्यैश्च तिर्यग्योनिभिरेव च ।
1
ग्गृहस्थः सेव्यते यस्मात् तस्मात् श्रेष्ठोग्टहाश्रमीति ॥ स्मृतेः ॥ ८ ॥
इति तृतीये नवमी कण्डिका ॥ ० ॥
For Private and Personal Use Only