Book Title: Damyanti Katha Champu
Author(s): Vinaysagar
Publisher: L D Indology Ahmedabad
View full book text
________________
दमयन्ती - कथा - चम्पूः
इहाकरभूया सिंहलद्वीपभुवा सदृशी, बहुदा त्यागिजनतया तुल्या समृद्धनया भूमिनिखातकृपणजननिक्षेपकुम्भिकया समा, प्रजा ।
४८८
इह समकरन्दानि कमलवनानि राजचक्रं ३ च, इह बहुधामानि नगराणि लोकहृदयं च, इह सारम्भाणि कृष्णकुलानि दशरूपकप्रेक्षणं च, इह बहुकृपाणि जनमनांसि प्रजापालबलं च, इह महाविप्राणि ग्रामपुरपत्तनानि मेषगोष्ठं च ।
इयं च गगनवीथीव पूर्वोत्तराफाल्गुनीराशिवायूपयुक्ता ब्राह्मणाग्रहारभूमिः ।
इहेति । अथ प्रथमातृतीया श्लेषः । हे देव ! इह देशे सिंहलद्वीपभुवा सदृशी प्रजा वर्तते । किम्भूता ? न करात् - राजांशात् भयं यस्यां सा अकरभया, अकरेत्यर्थः । किम्भूतया भुवा ? न करभा:- उष्ट्रा यस्यां सा तया करभरहितया । तथा इह त्यागिनी - दात्री जनता - जनसमूहस्त्यागिजनता तया तुल्या प्रजा वर्तते । किम्भूता प्रजा ? बह्वी दया यस्याः सा बहुदया । किम्भूतया त्यागिजनतया ? बहु ददातीति बहुदा तया बहुदया, जनानां समूहो जनताग्रामजनबन्धुसहायेभ्यस्तः । तथा हे देव ! इह देशे भूमौ निखाता- निक्षिप्ता कृपणजनानां-अदातृलोकानां या निक्षेपस्य-न्यासस्य कुम्भ्येव - कुम्भिका तया समा प्रजा वर्तते । किम्भूता प्रजा ? समृद्ध: - बहुलो नय: - न्यायो यस्यां सा समृद्धनया । किम्भूतया कुम्भिकया ? समृत् - मृत्तिकोपेतं धनं यस्यां सा तया समृद्धनया ।
अथ एकवचन-बहुवचन श्लेषः ।
हे देव ! इह-देशे कमलानि - पद्मानि राजचक्रं च नृपसमूहो वर्ते । * वर्तत इति तिङन्तप्रतिरूपकोऽयं निपातस्तेनैकत्वबहुत्वप्रयोगे अवैषम्यं अर्थवशाद्विभक्तिपरिणामो वा* । किम्भूतानि कमलानि ? सह मकरन्देन रसेन वर्तन्त इति समकरन्दानि । किम्भूतं राजचक्रम् ? समः करः - राजांशो यस्य तत् समकरं तथा दानं अस्यास्तीति दानिदानशौण्डमित्यर्थः । तथा हे देव ! इह - देशे एवम्विधानि नगराणि लोकहृदयं च । किम्भूतानि नगराणि ? बहूनि धामानि - गृहाणि येषु तानि बहुधामानि । किम्भूतं लोकहृदयम् ? बहुधा-अनेकधा मान:- अकृत्यानासेवनेऽहङ्कारोऽस्यास्तीति मानि । तथा देव ! इह-देशे कृषणकुलानि - कर्षककुलानि दशरूपकस्य प्रेक्षणकं च वर्तते । किम्भूतानि कृषणकुलानि ? आरम्भ :- कर्षणोपक्रमैः सह वर्तन्त इति सारम्भाणि । किम्भूतं दशरूपकप्रेक्षणकम् ? सारं - उत्कृष्टं तथा भाण: - रूपविशेषः सोऽस्यास्तीति भाणि । यदाह
*–* चिह्नान्तर्गत पाठो नास्ति अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776